॥ श्रीः ॥
श्रीनारायणभट्टकृतं
नारायणीयं
देशमङ्गलवार्यकृतया भक्तप्रियाख्यया व्याख्यया संवलितम् ।
गजाननं गिरां देवीं व्यासं कंसहनं गुरून् । |
इह खलु समधिगतनिखिलनिगमार्थसतत्त्वतया, शाब्दपरब्रझपारावारपारीणतया, परमभागवततया च सकल[२]सहृदयमहितयशाः श्रीनारायणकविः परमकारुणिकतया भक्तानुग्रहाय श्रीभागवतार्थानुसारि नारायणीयाभिधं[३] स्तोत्ररत्तं चिकीर्षुः प्रथमं प्रथमक्ष्लोकेन प्रारिप्सितस्य स्तोत्रस्याविघ्नेन परिसमाप्तिप्रचयगमनाभ्यां श्रोतृजनस[४]कलसमीहितसिद्धये च स्तोत्रप्रतिपाद्यजगत्सर्गविसर्गादिदशलक्षणलीलानिदानभूतपरत्तत्त्वानुस्मरणरूपं मङ्गलमाचरति -
सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां |