पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ३७]
१५३
कृष्णावतारप्रसङ्गवर्णनम् ।


सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधि
 नत्वा तं स्तुमहे जवादिति ययुः साकं तवाकेतनम् ॥ ३ ॥

 ऊच इति । धरित्र्या वचः सत्यं, मया दिव्येन चक्षुषा दृष्टम् । लक्ष्मीपतिरिति । भुवो रक्षणाभावेऽसौ केवलं लक्ष्मीपतिरेव स्यादिति भावः । तवाकेतनं क्षीराब्धिम् ॥ ३ ॥

ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः सङ्गता
 यावत् त्वत्पदचिन्तनैकमनसस्तावत् स पाथोजभूः ।
त्वद्वाचं हृदये निशम्य सकलानानन्दयन्नूचिवा-
 नाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥ ४॥

 त इति । ते यावत् तीरं गताः, तावत् पाथोजभूस्तव शेषशायिनो वाचं हृदये हृदयाकाशे प्रकाशितां निशम्यावगम्य परमात्मना विष्णुना स्वयं स्वेनैवाहमाख्यातः, तत् तस्य वाक्यमाकर्ण्यतामित्यूचिवान् ॥ ४ ॥

जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपै-
 स्तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना ।
देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाक्ष्चावनौ
 मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥ ५॥

  जान इति । भीमैर्नृपैर्जरासन्धादिभिर्हेतुभूतैः । दीनदशां पराधीनवृत्तिताम् । तेषां क्षेपाय निग्रहाय सः सच्चिदानन्दस्वरूपोऽहं समग्रात्मना, नांशेन । देवाः कलया अंशेन वृष्णिकुले गोपालाः देवाङ्गना गोप्यश्च भवन्तु ॥ ५ ॥

श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापित-
 स्वान्तेष्वीश ! गतेषु तावककृपापीयूषतृप्तात्मसु ।
विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरे
 धन्यां देवकनन्दनामुदवहद् राजा स शूरात्मजः ॥ ६॥

 श्रुत्वेति । निर्वापितानि सुखितानि स्वान्तानि येषाम् । भवत्सान्निध्येन यत् पुण्यमभ्युदयनिःश्रेयसकरत्वं तेनोत्तर उत्कृष्टे । उदवहद् उपयेमे । शूरात्मजो वसुदेवः ॥ ६ ॥