पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् – ३६]
१५१
परशुरामचरितवर्णनम् ।

 अथ महेन्द्रभूभृति तपस्यन् मुनिभिरभ्यर्थितः केरलभूमिं समुद्रमग्नामुद्धृतवानित्याह---

न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन् पुनर्मज्जितां
 गोकर्णावधि सागरेण धरणी द्दष्ट्वार्थितस्तापसैः ।
ध्यातेष्वासधृतानलास्त्रचकितं सिन्धुं स्रुवक्षेपणा-
 दुत्सार्योद्धृतकेरलो भृगुपते! वातेश! संरक्ष माम् ॥ ११ ॥ ४१ ॥

इति दत्तात्रेयपरशुरामयोरवतारवर्णनं परशुरामचरितवर्णनं च षट्त्रिशं दशकं सैकम् ।

क्ष्लोकार्थचिन्तासन्देहप्रश्नाख्यानोपपादनैः ।
हरिचिन्ताविनाभूतैः क्षणं सफलयामहे ॥

इति नारायणीयस्तोत्रव्याख्यायां

भक्तप्रियाख्यायां

नवमस्कन्धपरिच्छेदः ।


आदितः क्ष्लोकसङ्ख्या ३७५.