पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
[स्कन्धः - ९
नारायणीये

चक्रे त्वय्यथ वैष्णवेऽपि विफले बुद्ध्वा हरिं त्वां मुदा
 ध्यायन्तं छितसर्वदोषमवधीः सोऽगात् परं ते पदम् ॥ ८ ॥

 लीलेति । लीलया बाहुसहस्रेण वारिते नर्मदाजले वलतः प्लवमानस्य लङ्केशस्य गर्वमपहन्तीति तथा, येन कारागृहं प्रापितो रावणस्तेन श्रीमद्वाहुसहस्रेण मुक्तानि बहूनि शस्त्राणि अस्त्राणि च येन तममुं कार्तवीर्य निरुन्धन् निवारयन् अथ त्वयि तत्प्रयुक्ते वैष्णवे चक्रेऽपि विफले जाते त्वां हरिं बुद्ध्वा श्रीहरिं ध्यायन्तमत एव छितसर्वदोषं नष्टकामक्रोधादिदोषं वृक्णबाहुसहस्रं कृत्वावधीर्निहतवान् ॥ ८ ॥

भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुका-
 माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् ।
ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान्
 दिक्चत्रेषु कुठारयन् विशिखयन् निःक्षत्रियां मेदिनीम् ॥ ९ ॥

 भूय इति । अमर्षितैर्निजपितृवधमसहमानैर्नष्टशिष्ठैर्हेहयात्मजगणैस्त्वद्विहीनमाश्रमं प्राप्तैस्तव ताते जमदग्नौ हते हृदयमानानां सोरस्ताडनं विलपन्तीम् । पूर्ववद् ध्यानानीतरथायुधो दिक्चक्त्रेषु ये विप्रद्रुहः क्षत्रियास्तान् कुठारयन् कुठारेण निघ्नन् विशिखयन् विशिखैर्निघ्नन् ॥ ९ ॥

तातोज्जीवनकृन्नृपालककुलं त्रिःसप्तकृत्वो जयन्
 सम्तर्प्याथ समन्तपञ्चकमहारक्तहदौघे पितॄन् ।
यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुनः
 कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात् कुमारैर्भवान् ॥ १० ॥

 तातेति । पितुः शिरः कायेन सन्धाय मखैः पितरं जीवयन् काश्यपादिष्वृत्विक्षु दिशन् ददत् पुनः साल्वेन युध्यन् कुमारैः सनकादिभिस्तद्वाक्येन श्रीकृष्णोऽमुं निहनिष्यतीति ज्ञात्वा भवान् युद्धाच्छमितोऽभूत् ॥ १० ॥


 ‘प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च' इति णिच् । एवं विशिखयन्निति ।