पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम -- ३६]
१४९
परशुरामचारतेवर्णनम् ।

आखेटोपगतोऽर्जुनः सुरगवीसल्प्राप्तसम्पद्गणै-
 स्त्वपित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः ।
गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि-
 प्राणक्षेपसरोपगोहतचमृचक्रेण वत्सो हृतः ॥ ५ ॥

 आखेटेति । आखेटोपगतो मृगयाप्रसङ्गेनाश्रमं गतः । सुरगवीसम्प्राप्तैः सुरभिसकाशाल्लब्धैः सम्पद्गणैदिव्यैर्भोग्यैः । पुरं माहिम्मती गतः । पुनर्दुर्मन्त्रिवाचा गां तां सुरभि क्रेतुं स्वीकर्तुम् । कुधिया (तेन सचिवेन : ।) गवाहरणं रुन्वतो मुनेर्जमदग्नेः प्राणक्षेपो वधस्तेन सरोषया गवा हतं चमूचक्रं यस्य तेन सचिवेन सुरभेवत्सो हृतो माहिष्मती नीतः ॥ ५ ॥

शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ संख्या समं
 विभ्रद् ध्यातमहोदरोपनिहितं चापं कुठारं शरान् ।
आरूढः सहवाहयन्तृकरथं माहिष्प्रतीमाविशन्
 वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्मास्तुथाः सङ्गरम् ॥ ६॥

 शुक्रेति । सख्या अकृतव्रणेन ध्यातेन महोदरेण गिरिशपार्षदेनोपनिहितमानीतं चापादिचतुष्टयं बिभ्रदारूढश्च सन् क्षितिपतावर्जुने । सम्प्रास्तुथा आरव्धवान् ॥ ६ ॥

 अथ सैन्यनाशे सत्यर्जुनः स्वयमेव श्रीपरशुरामभापतदित्याह-

पुत्राणामयुतेन सप्तदशभिश्राक्षौहिणीभिर्महा-
 सेनानीभिरनेकमित्रनिवहैर्व्याजृम्भितायोधनः ।
सघस्त्वत्ककुठारवाणविदलन्निश्शेष सैन्योत्करो
 भीतिप्रद्रुतनष्टशिष्टतनयस्त्वामापतद्धेहयः ॥ ७ ॥

लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह-
 श्रीमद्भाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुम् ।