पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
[स्कन्धः - ९
नारायणीये

 अथ श्रीपरशुरामावतारमाह-

सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं
 ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् ।
सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे !
 रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्पदम् ॥ २ ॥

 सत्यमिति । अर्जुनस्य वरमन्ते स्वेनैव वधम् । तच्छक्तिरर्जुनस्य शक्तिस्तन्मात्रेणानतम् ईपच्छमितव्रह्मोपद्रवम् ॥ २ ॥

लब्धाम्नायगणश्चतुर्दशवया गन्धर्वराजे मना-
 गासक्तां किल मातरं प्र[१]ति पितुः क्रोधाकुलस्याज्ञया ।
ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात् पितु-
 स्तेषां जीवनयोगमापिथ वरं माता च तेऽदाद् वरम् ॥ ३ ॥

 लब्धेति । चतुर्दशवया एव लब्ध अर्थज्ञानपर्यन्तमधीत आम्नायगणो येन गन्धर्वराजे चित्ररथे मनागीषदासक्तामत एव जलानयने सविलम्बां मातरं रेणुकां प्रति इमां जहीति तातस्य जमदग्नेराज्ञामतिगच्छन्त्यतिक्रामन्तीति तथा तैः सोदरैर्ज्येष्ठैः समं सहेमां रेणुकां मातरं छित्वा निगृह्य पुनः शान्तात् प्रसन्नात् पितुः सकाशात् तेषां मातुर्भ्रातॄणां च जीवनयोगं वरमापिथ प्राप्तवान् ॥ ३ ॥

पित्रा मातृमुदे स्तवातवियद्धेनोर्निजादाश्रमात्
 प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् ।
लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं
 प्राप्तो मित्रमथाकृतत्रणमुनिं प्राप्यागमः स्वाश्रमम् ॥ ४ ॥

 पित्रेति। अथानन्तरं पित्रा जमदग्निना मातू रेणुकाया मुंदे प्रीत्यै स्तवेनाहृतानीता वियद्धेनुः सुरभिर्यस्मिन् तस्मादाश्रमाद् भृगोः पितामहस्य गिरा प्रस्थाय तस्य गौरीपतेः परशुं लब्ध्वा तेन गौरीपतिनोक्तम् । तस्मादेव महास्त्रादिकं प्राप्तः सिंहमुखाद् रक्षितमकृतत्रणमुनिं मित्रं प्राप्य स्वाश्रममगमः ॥ ४ ॥


  1. 'रान्' घ. पाठः.