पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ३१]
१३५
वामनचरितवर्णनम् ।

 भगवानुत्तरमाह-

पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये-
 दित्युक्तेऽस्मिन् वरद ! भवते दातुकामेऽथ तोयम् ।
दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात् तं
 मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥ ४॥

 पादेति । यदि न मुदितः सोऽसन्तुष्टो विष्टपैस्त्रिभिर्लोकैरपि न तुष्येत् । तोयं तोयपूर्वकं महीं दातुकामे दैत्याचार्यः शुक्रो मा मा देयमिति भविष्यत्रिपदक्रमणादिकथनपूर्वकमाबभाषे न्यषेधत् । ननु कथं काव्यस्य मगवत्प्रतिकूलाचरणमित्याशङ्कयाह – तव प्रेरणादिति । तदपि किमर्थमित्यत आह -- परीक्षार्थिन इति । बलेर्धर्मस्थैर्यपरीक्षार्थी त्वं तदन्तर्यामित्वेनं प्रेरितवानित्यर्थः ॥ ४ ॥

याचत्येवं यदि स भगवान् पूर्णकामोऽस्मि सोऽहं
 दास्याम्येव स्थिरमिति वदन् काव्यशप्तोऽपि दैत्यः ।
विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं
 चित्रं चित्रं सकलमपि स प्रार्पयत् तोयपूर्वम् ॥ ५ ॥

 याचतीति । शुक्रेण भ्रष्टैश्वर्यो भवेति शप्तोऽपि सकलं हरिरयं त्रैलोक्यमाच्छिद्य शक्राय दास्यतीति गुरुवचनाद्विदिततत्त्वस्त्रैलोक्यं सकलं प्रार्पयत् ॥ ५ ॥

निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद्
 व्यातन्वाने मुमुचुर्ऋषयः सामराः पुष्पवर्षम् ।
दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजा-
 मुच्चैरुच्चैरवृधवधीकृत्य विश्वाण्डभाण्डम् ॥ ६ ॥

 निःसन्देहमिति । पश्यतां विश्वभाजां सर्वेषु पश्यत्सु । तदिदं वामनरूपम् । विश्वाण्डभाण्डं ब्रह्माण्डकटाहमवधीकृत्य ववृधे ॥ ६ ॥

त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ
 कुण्डीतोयैरसिचदपुनाद् यज्जलं विश्वलोकान् ।