पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - २५]
१२१
प्रह्लादचरितवर्णनम् ।


 तावदिति । तावत् तस्मिन् काल एव मध्येसभममुपितं त्वामभ्येतुं कोऽपि न शशाक । कोऽपि ब्रह्मापीति वा । तत्र हेतवः मांसवपाभ्यां करालं वपुर्यस्य तम् । ततश्च सर्वे प्रत्येकमस्तोषत तुष्टुवुः ॥ ८ ॥

भूयोऽप्यक्षतरोषधाभ्नि भवति ब्रह्माज्ञया वालके
 प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः ।
शान्तस्त्वं करमस्य मूर्ध्नि समधा: स्तोत्रैरथोद्गायत-
 स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥ ९ ॥

 भूय इति । भूयोऽपि ब्रह्माद्यैः संस्तुतोऽप्यक्षतरोपधाम्नि अन्यूनकोपभाजि भवति सति प्रह्लादे तव पदयोर्नमति सति तद्वात्सल्येन शान्तस्त्यक्तरोषस्त्वमस्य मूर्ध्नि करं समधाः । अकामधियोऽप्यस्य दैत्याधिपत्यं लोकानुग्रहरूपं वरं तेनिथ तदौदासीन्येऽपि स्वयं चकर्थ ॥ ९ ॥

 ननु किमेवं क्रूरस्त्रभावो हरिः, न, यथा नदो रौद्ररसमभिनयति तद्वदित्याह----

एवं नाटितरौद्रचेष्टित! विभो! श्रीतापनीयाभिध-
 क्ष्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते! ।
तत्ताद्दङ्निखिलोत्तरं पुनरहो कस्त्वां परो लङ्घयेत्
 प्रह्लादप्रिय! हे मरुत्पुरपते! सर्वामयात् पाहि माम् ॥१०॥

 एवमिति । अत्र प्रमाणमा -श्रीतापनीयेति । श्रीतापनीयोपनिषत्प्रतिपादितैवंविधसकलमहत्त्व ! अत्यन्तशुद्धा सच्चिद नन्दरूपा आकृतिः स्वरूपं यस्य । तत्तादृशमनुपमं निखिलोत्तरं सर्वोत्कृष्टं त्वां कः परो लङ्घयेत् त्वत्स्वरूपभूतत्वत्पार्षदादन्यः को वा त्वदप्रियमाचरेदित्यर्थः । हे प्रह्लादप्रिय! भक्तवत्सल! ॥ १० ॥२०॥

इति प्रह्लादचरितवर्णनं पञ्चविंशं दशकम् ।

इति नारायणीयस्तोत्रव्याख्यायां

भक्तप्रियाख्यायां

सप्तमस्कन्धपरिच्छेदः ।


आदितः क्ष्लोकसङ्ख्या २६३.