पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
[स्कन्धः - ७
नारायणीये

ऽथानन्तरं विचित्रश्रमान् व्यायाममार्गेषु दक्षिणसव्यसञ्चरणभेदेषु शिक्षाविशेषान् व्यावृण्वन् प्रकाशयन् भुवनग्रासोद्यतं ब्रह्माण्डकवलीकरणसमर्थं त्वामापपाताससाद ॥ ५ ॥

भ्राम्यन्तं दितिजाधमं पुनरपि मोद्गृह्य दोर्भ्या जवाद
 द्वारेऽथोरुयुगे निपात्य नखरान् व्युत्खाय वक्षोभुवि ।
निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं
 पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ॥ ६ ॥

 भ्राम्यन्तमिति। अन्तर्बहिश्च हन्तुमशक्यत्वाद् द्वारे । जले स्थले चाशक्यत्वादूरुयुगे दितिजाधमं निपात्यायुधैर्हन्तुमशक्यत्वान्नखरान् वक्षोभुवि व्युत्खाय निर्भिन्दन् विदारयन् अधिगर्भ वक्षोन्तर्भागे निर्भरगलद्वक्ताम्बु सिरामुखतः सन्ततनिःष्यन्दमानं रुधिराम्बु । बद्धोत्सवं यथा भवति तथा । बहून् जगत्संहारिणो ब्रह्माण्डकटाहभेदकान् सिंहारवानुदैरयः प्रायुङ्क्थाः ॥ ६ ॥

त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमवर्ष्मणि
 प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि ।
भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं
 प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥ ७ ॥

 त्यक्त्वेति । रक्तलहरीसिक्तोन्नमद्वमणि रुधिरस्रावाक्तोन्नतकाये त्वयि हतं तं त्यक्त्वाशु प्रत्युत्पत्य तदनुगसमस्तदैत्यसमूहांश्चाखाद्यमाने भक्षयति च सति चराचरं दुःस्थामनवस्थितस्वस्थाननिवेशामवस्थां दधौ । तदेवाह - भ्राम्यन्ती भूमिर्यस्मिन् । विकम्पितमम्बुधिकुलं यस्मिन् । व्यालोलशैलोत्करं कन्दुकायमानकुलाचलनिकरम् । प्रोत्सर्पत्खचरं केसरोत्क्षिप्तज्योतिर्गणम् ॥ ७॥

तावन्मांसवपाकरालवपुषं घोरान्त्रमालाधरं
 त्वां मध्येसभमिद्धरो[१]पमुषितं दुर्वारगुर्वारवम् ।
अभ्येतुं न शशाक कोऽपि भुवने दूरे स्थिता भीरवः
 सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ॥ ८ ॥


  1. 'कोपमु' ख. पाठ:.