पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - २५]
११९
प्रह्लादचरितवर्णनम् ।

 तद्रूपमेव वर्णयति-

तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर-
 प्रोत्कम्पप्रनिकुम्विताम्बरमहो जीयात् तवेदं वपुः |
व्यात्तव्याप्तमहादरीसखमुखं खड्गोग्रवल्गन्महा-
 जिहानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥ ३ ॥

 तप्तेति । तप्तस्वर्णसवर्णे विलीनावस्थितपुरटसदृशे घूर्णती भ्रमिते अतिरूक्षे अक्षिणी यस्मिन्, सटाकेसरप्रोत्कम्पप्रनिकुम्विताम्बरं प्रचलितस्कन्धरोमाञ्चलाच्छादितगगनतलं, व्यात्तं विवृतं व्याप्तमहादरीसखं विस्तृतमहागुहासदृशं मुखं यस्मिन्, खङ्गवदुग्राया वल्गन्त्याश्चलिताया महाजिह्वाया बहिर्निर्गमे दृश्यमानेन सुमहता दंष्ट्रायुगेनोड्डामरमतिभीषणं तदिदं ते वपुर्जीयात् सर्वोत्कृष्टतया प्रकाशताम् ॥ ३ ॥

उत्सर्पद्वलिभङ्गभीषणहनु ह्रस्वस्थवीयस्तर-
 ग्रीवं पीवरदोश्शतोद्गतनखक्रूरांशुदूरोल्वणम् ।
व्योमोलाङ्घनाघनोपमघनप्रध्वाननिर्धावित-
 स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥ ४ ॥

 उत्सर्पदिति । भवतस्तन्नारसिंहं वपुर्नमामि । कीदृशम् उत्सर्पद्भिरट्टहासविजृम्मणादिषूपर्युपरि गच्छद्भिर्वलिभङ्गैर्भीषणौ हनुप्रदेशौ यस्मिन्, ह्रस्वा स्थवीयस्तरा अतिशयेन स्थूला ग्रीवा यस्मिन्, पीवराणां दोष्णां शतादुगतानां नखानां क्रूरैरंशुभिर्दूरोल्बणमतिशयेन भयङ्करं, सजलजलधरध्वानवदतिभीषणसिंहनादैर्विद्रावितवैरिनिकरम् ॥ ४ ॥

नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं
 दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्याममुम् ।
वीरो निर्गलितोऽथ खड्गफलके गृह्णन् विचित्रश्रमान्
 व्यावृण्वन् पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥ ५ ॥

 नूनमिति। कपटवेषभृद् विष्णुरेवायं नूनं तर्कयामि, अमुं भ्रातृहणं निहन्मीति निश्चित्य । अघृथास्त्वमग्रहीः । कराभ्यां निर्गलितो वीरो वीरम्मन्यो-