पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
[स्कन्ध:- ७
नारायणीये

 अरे इति । सकलं जगद् आत्मा स्वरूपं यस्यासौ हरिः क्वेति दुर्घटत्वेन कोपावेशेन चासकृदुच्चरन्नेव स्तम्भं प्रभिन्ते स्म ताडितवान् । अतः पश्चात् स्तम्भभञ्जनानन्तरं तत्र किं जातमिति न हि सहसा वक्तुमीशोऽस्मि । कृपायुक्त आत्मा यस्य, हे कृपात्मन्! भक्तवत्सल ! विश्वात्मन् ! स्पष्टविश्वात्म[१]तत्त्व ! हे विष्णो ! जगद्व्यापनशील! हे पवनपुरवासिन् ! मां मृडय सुखय ॥ १० ॥

इति प्रह्लादचरिते नृसिंहाविर्भावप्रसङ्गवर्णनं चतुर्विंशं दशकम् ।

स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णी समाचूर्णय-
 न्नाघूर्णज्जगदण्डकुण्डकुहरो घोरस्तवाभूद् रवः ।
श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतं[२]
 कम्पः कक्ष्चन सम्पपात चलितोऽप्यम्भोजभूर्विष्ट[३]पात् ॥ १ ॥

 स्तम्भ इति । एवं स्तम्भभञ्जनानन्तरं प्रादुर्भवतस्तव घोरो रवः सिंहनादोऽभूत् । घोरत्वमेवाह – घट्टयतो निघ्नतः । आधूर्णज्जगदण्डकुण्डकुहरः सम्भ्रान्तब्रह्माण्डकटाहान्तर्गतचराचरः । पूर्वे कदाप्यश्रुतं यं श्रुत्वा दैत्यस्य हिरण्यकशिपोर्हृदये कश्चनानिर्देश्यरूपः कम्पः सम्पपात । अपिच अम्भोजभूरपि विष्टपात् सत्यलोकाच्चलितः किमिदमकाण्डे कल्पापाय इति सम्भ्रान्तोऽभूत् ॥ १ ॥

दैत्ये दिक्षु विसृष्टचक्षुषि महासंरम्भिणि स्तम्भतः
 सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो ! ।
किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरे
 विस्फूर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः ॥ २ ॥

 दैत्य इति । विसृष्टचक्षुषि · सर्वतः सञ्चारितनयने सति न मृगात्मकं न मनुजाकारं नरसिंहाकारं वपुः तद् दृष्ट्वा किं किमेतद् भीषणमद्भुतं चेति व्युद्भ्रान्तचित्तेऽसुरे हिरण्यकशिपौ विस्फूर्जद्भिर्विकस्वरैर्धवलोमरोमभिः विकसत् प्रकाशमानं च वर्ष्म स्वरूपं यस्य स त्वं समाजृम्भथाः स्फुटनिर्गतोन्नतरूपोऽभूः ॥ २ ॥


  1. 'त्मक। हे' क. पाठः.
  2. 'त:' क. घ. पाठः.
  3. 'रा' घ. पाठः.