तावदिति । तावत् तस्मिन् काल एव मध्येसभममुपितं त्वामभ्येतुं कोऽपि
न शशाक । कोऽपि ब्रह्मापीति वा । तत्र हेतवः मांसवपाभ्यां करालं वपुर्यस्य तम् ।
ततश्च सर्वे प्रत्येकमस्तोषत तुष्टुवुः ॥ ८ ॥
भूयोऽप्यक्षतरोषधाभ्नि भवति ब्रह्माज्ञया वालके |
भूय इति । भूयोऽपि ब्रह्माद्यैः संस्तुतोऽप्यक्षतरोपधाम्नि अन्यूनकोपभाजि भवति सति प्रह्लादे तव पदयोर्नमति सति तद्वात्सल्येन शान्तस्त्यक्तरोषस्त्वमस्य मूर्ध्नि करं समधाः । अकामधियोऽप्यस्य दैत्याधिपत्यं लोकानुग्रहरूपं वरं तेनिथ तदौदासीन्येऽपि स्वयं चकर्थ ॥ ९ ॥
ननु किमेवं क्रूरस्त्रभावो हरिः, न, यथा नदो रौद्ररसमभिनयति तद्वदित्याह----
एवं नाटितरौद्रचेष्टित! विभो! श्रीतापनीयाभिध- |
एवमिति । अत्र प्रमाणमा -श्रीतापनीयेति । श्रीतापनीयोपनिषत्प्रतिपादितैवंविधसकलमहत्त्व ! अत्यन्तशुद्धा सच्चिद नन्दरूपा आकृतिः स्वरूपं यस्य । तत्तादृशमनुपमं निखिलोत्तरं सर्वोत्कृष्टं त्वां कः परो लङ्घयेत् त्वत्स्वरूपभूतत्वत्पार्षदादन्यः को वा त्वदप्रियमाचरेदित्यर्थः । हे प्रह्लादप्रिय! भक्तवत्सल! ॥ १० ॥२०॥
इति प्रह्लादचरितवर्णनं पञ्चविंशं दशकम् ।
इति नारायणीयस्तोत्रव्याख्यायां
भक्तप्रियाख्यायां
सप्तमस्कन्धपरिच्छेदः ।
आदितः क्ष्लोकसङ्ख्या २६३.