पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
[स्कन्धः - ३
नारायणीये

 परमेति । सकलभयानां संसारदुःखस्यापि विनेत्रीं विनयनमुपशमं कर्त्री समूलोन्मूलनीमित्यर्थः । सर्वकामानभीष्टार्थानुपनयति प्रापयतीति सर्वकामोपनेत्री, ताम्। दृढं निश्चयेन । तत् तस्माद्, यस्माद् भयनिवृत्तयेऽभीष्टप्राप्त्यै च त्वद्भक्तिरेव प्रार्थनीयति निस्संशयं त्वयोक्तं, तस्मादित्यर्थः । उपाधत्स्व सङ्क्रामय । भक्तिं प्रेमलक्षणाम् ॥ १० ॥ ८३ ॥

इति कपिलोपाख्यानं पञ्चदशं दशकम् ।

इति नारायणीयस्तोत्रव्याख्यायां

भक्तप्रियाख्यायां

तृतीयस्कन्धपरिच्छेदः ।


आदितः क्ष्लोकसङ्खया १५८.