पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ चतुर्थस्कन्धपरिच्छेदः ।

महदादेः प्रजेशानां ब्रह्माण्डस्य च सम्भवः ।
सर्गलीलोदिता विष्णोर्विसर्गोऽथ निरूप्यते ॥

 अथ विसर्गोपयोगिनरनारायणावतारचरितप्रस्तावाय दक्षपरिणयनाद्याह-

दक्षो विरिञ्चतनयोऽथ मनोस्तनूजां
 लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः ।
धर्मे त्रयोदश ददौ पितृषु स्वधां च
 स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥ १ ॥

 दक्ष इति । कथान्तरारम्भार्थोऽथशब्दः । मनोः स्वायम्भुवस्य । इह प्रसूतिसंज्ञायां स्वभार्यायाम् । धर्मे धर्मदेवाय त्रयोदश मैन्याद्याः पुत्रीः । पितृषु पितृभ्यो युक्तेभ्यः स्वधाम् | त्वदंशे त्वत्स्वरूपे ॥ १ ॥

मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं
 नारायणं नरसखं महितानुभावम् ।
यज्जन्मनि प्रमुदिताः कृततूर्यघोषाः
 पुष्पोत्करान् प्रववृषुर्तुनुवुः सुरौघाः ॥ २ ॥

मूर्तिरिति । मूर्तिः धर्मगृहिणीष्ववरजा भवन्तं नारायणं नरसखमिति विष्णोरंशभूतौ नरनारायणौ सुषुवे जनयामास ॥ २ ॥

दैत्यं सहस्रकवचं कवचैः परीतं
 साहस्रवत्सरतपस्समराभिलव्यैः ।
पर्यायनिर्मिततपस्समरौ भवन्तौ
 शिष्टैककङ्कटममुं न्यहतां सलीलम् ॥ ३ ॥

 दैत्यमिति । कवचैः परीतं सहजसहस्रकवचसन्नद्धशरीरम् । साहस्रेति । सहस्रसंवत्सरं चीर्णन तपसा तावत्कालं कृतेन समरेण चच्छेद्यरित्यर्थः पर्यायनिर्मितौ परस्परपरिहारेण कृतौ तपस्समरौ याभ्यां तौ तथा । एकस्मि-