चोऽप्यर्थे । सोऽपि काले पुण्यक्षये सति निपतति पुनरावर्तते । दक्षिणाध्वोपगामी
धूमादिमार्गगमनशीलः । धूमादिमार्गगमनागमनप्रकारश्चेत्थं–केवलकान्यकर्मकृज्जीवः
प्रारब्धावसाने चक्षुरादीन्द्रियद्वारा लिङ्गशरीरेण निर्गच्छति । तं च धूमाभिमानिनी
देवता राज्यभिमानिदेवताहस्ते प्रयच्छति, रात्रिकालाभिमानिनी देवता कृष्णपक्षाभिमानिदेवतायै, सा च दक्षिणायनषण्मासाभिमानिन्यै । सा च पितृलोकमार्गेणाकाशे
चन्द्रमसं सन्निधापयति । तत्र यावत्सुकृतावसानं स्वर्गसुखमनुभूय भूमौ पतिष्यन्
प्रथममाकाशमार्गे पतित्वा ततो वायुधूमाभ्र[१]वृष्टिक्रमेणौषधीषु पतति[२] । ओषधीभ्यः
अन्नमन्नाद्रेतो भूत्वा स्त्रीयोनिं गतः शरीरी भवतीति । यदि पुण्यशेषस्तर्हि
ब्राह्मणोंदियोनौ, पापशेषस्तर्हि चण्डालादियोनौ च जायते । तर्हि किं कुर्वनुत्तरायणमार्गेण यातीत्यत आह-मयीति । मयीश्वरे निहितं समर्पितम् अकामं काम्यनिषिद्धव्यतिरिक्तं कर्म नित्यनैमित्तिकप्रायश्चित्तोपासनरूपम् | तुरेवार्थे । उदक्पथार्थमार्क्चिरादिमांर्गप्राप्तिफलकमिति यावत् ॥ ८ ॥
अथ भगवत्प्रयाणं देवहूतेर्मोक्षप्राप्तिं चैकेन क्ष्लोकेनाह-
इति सुविदितवेद्यां देव! हे देवहूतिं |
इतीति । सुविदितं सम्यगवघृतं वेद्यं वस्तु ब्रह्म तत्प्राप्तिसाधनं च यया ताम् । अथ त्वद्गमनानन्तरम् । असौ देवहूतिः । त्वमपि कपिलोऽपि जनहितार्थे त्रैलोक्यरक्षायै प्रागुदीच्यां दिशि वर्तसे ॥ ९ ॥
अथ कापिलमुपसंहरन् भक्तिं प्रार्थयते-
परम! किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं |