पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । वर्धापकगृहीताङ्गस्थितवस्त्रेऽप्यभाषत । कषीकं तु खनित्रे स्यात् क्लीबलिङ्गमथ स्त्रियाम् ॥ ३९७ ॥ मक्षिकायां कषीका स्यात् कर्णिका तु वनस्प वनस्पतेः । बीजे स्त्री स्यात् तथा भिनतण्डुलावयवेऽत्र तु ।। ३९८ ॥ पुंस्याहार्थे हर्षनन्दी ना त्वेव पटवासके । कणिकोऽथ कबन्धोऽस्त्री क्रियायुक्तेऽपमूर्धके || ३९९ ॥ शरीरे सलिले चापि रक्षोभेदे तु पुंस्ययम् । रभसस्तूदरे राहावपि भाषितवानमुम् ॥ ४०० ॥ करण्डो ना समुद्भे स्यात् पुटीसंज्ञे तु भाजने । स्त्री करण्डी द्वयोस्तु स्यात् पक्षिभेदेऽथ ना स्मृतः ॥ ४०१ ॥ कडम्बो व्यञ्जनीभूतशाकनाले द्रुमान्तरे । क्की तु तत्प्रसवेऽथो ना कलम्बः शाकनालके ॥ ४०२ ॥ बाणे चाथ कलम्बोऽस्त्री शतपर्वसमाख्य । स्तम्बै शाके कदम्बस्तु सर्षपे ना च नीपके ॥ ४०३ ॥ क्लीनं तु प्रसवे तस्य समूहे चाथ ना स्मृतः । करँम्बः सेकमिश्रान्ने मिश्रमात्रे तु भेद्यवत् ॥ ४०४ ॥ केचित् तु पुष्पे क्लीत्याहुः कबरस्तु नृलिङ्गकः । लवर्णेऽ(म्ले)*च रसयोर्भेद्यलिङ्गस्तु तद्वतोः॥ ४०५ ॥ केशविन्यासभेदे तु कबरी स्त्री तथैव सा । बाष्पिकासंज्ञभैषज्ये शोकेऽपि रभसोऽपठीत् ॥ ४०६ ।। ८१ १. 'षि' ख. रु. पाठ:. २. 'र्णी' क. ख. घ. पाठ:. ३. 'तौ' ग. पाठ:. ४. 'व' क. ख. ङ. पाठ:. ५. 'म्बेऽशोके' ग. पाठ:. ६. 'ट' ग. पाठ:. ७. 'द' ग. पाठः. ८. 'णे चरयो' क., ‘णे वारसौधरयो' ख, ‘णे चारसरयो' ड. पाठः. 'कवरं लवणाम्लयोः' इति मेदिनी ।