पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे ना द्वे तु कच्छपे त्रिस्तु मद्यपे कम्बलस्तु ना । कस्मिंश्चित् पार्वतीभक्ते रभसस्तूक्तवानमुम् ॥ ३८६ ॥ उत्तरासनमात्रे च सास्त्रायां च गवामथ । रभसः सलिले क्लीबं रल्लके तु त्रिलिङ्गकम् ॥ ३८७ ॥ कम्बली स्त्री तु विज्ञेया सज्जनायां च हस्तिनः । कल्पना क्ली तु क्ऌप्तौ स्याच्छेदने चाथ नस्त्रियोः || ३८८ ॥ क्रियायां स्यात् कल्पयतेरथ स्यात् कर्षकः पुमान् । अङ्गारके ऋष्टरि तु भेद्यवच्च कृषीवले || ३८९ ॥ ककुदोऽस्त्री बलीवर्दस्कन्धयोर्मध्य उन्नते । प्रधाने राजचिह्ने च हस्तिनो मेहू एव च ।। ३९० ॥ कठिनं तु कठोरे त्रिः कठिना तु स्त्रियामियम् । शुक्लधातुसमाख्ये स्यादित्याहु॑र्हपतरे || ३९१ || रभसो गुडशर्केरेत्यमुमर्थमभाषत । कमठः कच्छपे द्विः स्याद् वामने भेद्यलिङ्गकम् ॥ ३९२ ॥ कूर्मास्थान तु ना क्की तु भिक्षापात्रेऽथ कक्खटम् । कठिने त्रिः कक्वटी तु. शुक्लधातुसमाख्यके || ३९३ ॥ पाषाणभेदे स्त्री त्रिस्तु कनिष्ठोऽल्पतमेऽनुजे । तथा युवतमे स्त्री तु कनिष्ठाल्पतमाङ्गुलौ ॥ ३९४ ॥ क्ली तु भूलवणे कूप्यसंज्ञेऽथ करजः पुमान् । नखे करञ्जवृक्षे च क्ली तु व्याघ्रनखाइये ॥ ३९५ ॥ भेषजे कञ्चुकस्त्वस्त्री कवचे वारवाणके । निर्मोके भोगिनश्चाह रभसः शब्दवित्तमः || ३९६ ॥ 9. 'हद्द' ग. पाठः २. 'के' क. ग. ङ. पाठः,