पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे शिरःस्थो व्यवहारस्थेऽभियोक्तरि शिरःस्थिते । समर्थस्तु समानार्थे सम्बन्धार्थे हितेऽपि च ॥ ५७ ॥ न्याय्ये शक्ते सदस्यस्तु यज्ञानां विधिदर्शिनि । सभ्ये च संस्थितस्तु स्यात् समाप्ते च मृतेऽपि च ॥ १८ ॥ सम्यक्स्थिते सत्तमस्तु श्रेष्ठे चाप्यतिशोभने । तथा पूज्यतमे चाथ सङ्कीर्णो निचितेऽपि च ॥ १९ ॥ अशुद्धव्याप्तयोश्चापि कुत्रचिद् वर्णसङ्करे । सङ्कुलं तु भवेद् व्याप्ते परस्परपराहते ॥ ६० ॥ वचने स्यादविस्पष्टवचनेऽन्येऽथ मिश्रिते । संसृष्टशब्दं जानीयाच्छुद्धे च वमनादिभिः ।। ६१ ॥ समूढः पूजिते भुग्ने सद्योजातेऽप्युपप्लुते। संहतं दृढसन्धौ च सङ्गते स्थायुकः पुनः ॥ ६२ ॥ स्याद् ग्रामाधिकृते स्थास्नावथ साधिष्ठ इत्ययम् । भवेद् भृशतमे चैव तथा साधुतमेऽपि च ॥ ६३ ॥ अथो भृशतरे साधुतरे साधीय इत्यदः । स्तिमितं निश्चले क्लिन्ने तृप्ते तु सुहितो भवेत् ॥ ६४ ॥ तथा सुष्ठु हितेऽपि स्यात् सेनारक्षे तु सैनिकः । स्यात् सेनासमवेते च हृषितस्तु मनोहरे ॥ ६९ ॥ सरोमाञ्चे प्रतिहते सहर्षे विस्मितेऽपि च । तथा स्तब्धे च रोमादावित्यध्यायः समाप्तवान् ॥ ६६ ॥ इति त्र्यक्षरकाण्डे वाच्यलिङ्गाध्यायः । १. 'हर्षित' क. ङ. पाठ:. 'समूढ: पुजिते भुग्ने सद्योजातेऽनुपलते' इति तु मेदिनी ।