पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६ नानार्थार्णवसंक्षेपे भरतस्त्वृत्विजि नटे रामस्य च कनीयसि । आद्यक्षत्रियभेदे च वर्षेऽस्मिन् नृत्तशास्त्रके ॥ १६९ ॥ भास्करस्तु भवेद् वह्नावादित्ये रभसः पुनः । भाकूटः शैलभेदे स्यात् तथैवानिमिषान्तरे ॥ १७० ॥ भुवन्युर्भास्करे वह्नौ भूतात्मा तु विरिञ्चने । जीवात्मनि शरीरे च पवने चाथ मन्दरः ॥ १७१ ॥ अब्धिमन्थनशैले च हारभेदेऽष्टयष्टिके । महेन्द्रस्तु भवेच्छै‌लविशेषेऽपि पुरन्दरे ॥ १७२ ॥ मगधस्तु भवेद् राजभेदे तस्य तु नीवृति । मगधा भूम्नि च स्यात्तु वाद्यभेदे च महुके ॥ १७३ ॥ मुष्टौ च फलकादीनां मारिषस्तु निरूपितः । जीवशाकाह्वये शाकस्तम्बे नाट्योक्तिगोचरे ॥ १७४ ॥ आर्ये स्यादथ मारीचः काकोले याजके द्विपे । रक्षोभेदे मासरस्तु भक्तमण्डे तथैव च ॥ १७५ ॥ मद्यस्य साधनद्रव्ये बल्कसाख्येऽथ मारुतिः । भीमसेने हनुमति मुदिरो मेघसूर्ययोः ॥ १७६ ॥ मुकुरस्तु कुलालस्य दण्डे चादर्शनेऽपि च । वकुले चाथ मुरवः खण्डिकाद्वितयात्मके‌ || १७७ ॥ मानभेदे वाद्यभेदे मुर्मुरस्तु तुषानले । ज्वलदङ्गारपूर्णाग्नौ त्वपरेऽथ मुकुन्दवाक् ॥ १७८ ॥ नवानां निधिभेदानामेकस्मिंश्च निधावपि । वासुदेवेऽथ मुहरिः सूर्ये चाप्यनडुह्यपि ॥ १७९ ॥ मोरट: कृष्णजीरे च रम्भास्थ्नि मलयोद्भवे । यजतस्तु शशाङ्के स्याद् यज्ञद्रव्येऽथ मन्मथे ॥ १८० ॥ १. 'हु' क. ङ. पाठः,