पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७८ नानार्थार्णवसंक्षेपे पारावते चकोरे च बहुव्रीहौ तु भेद्यवत् । रक्ताङ्गस्तु पुमान् भौमे विद्रुमे तु नपुंसकम् || १४९४ ॥ काम्बिल्यजीवन्त्योस्त्वाह स्त्रीलिङ्गं रभसः कविः | अर्थलिङ्गसमासांश्च तर्कयेदिह पूर्ववत् ॥ १४९५ ।। रहस्या तु नदीभेदे स्त्रियां त्रिस्तु रहोभवे । रवणस्तु पुमाञ्छब्दे पटोलाख्यलतान्तरे ।। १४९.६ ।। वल्लभे रभसः प्राह तम्य मूलं विचिन्त्यताम् । कांस्यसंज्ञकलोहे तु क्ली रुते रभसः पुनः ॥ १४९७ ॥ पटोलमूलेऽप्यपठीत् त्रिस्तु शब्दनशीलके । उष्ट्रगर्दभयोस्तु द्वे भ्रमरे चाप्यधीयते ॥ १४९८ ॥ रपठस्तु द्वयोईयो मण्डके विदुषि त्रि तु । रभसस्तु पुमान् वैगे हर्षसंरम्भयोरपि ।। १४९९ ।। त्रिस्तु स्यान्महति द्वे तु म्लेच्छे रमठ इत्ययम् । त्रिस्तु क्रीडनशीले स्याद् रमणं तु नपुंसकम् ॥ ११०० क्रीडायां पुंसि तु धवे स्त्रीभेदे तु स्त्रियामियम् । रमणी रमयत्यर्थे पुनः स्याद् रमणा न ना ॥ १५०१ ।। रथाङ्गं रथचक्रे की स्यन्दनावयवेऽपि च । चक्रवाकाह्वये चापि पक्षिभेदे द्वयोरयम् || १५०२ ॥ अथ विद्याद् रक्तिका तु कृष्णलाख्यलतान्तरे । स्त्रीलिङ्गा ना तु बन्धूके ब्रूते म्लाने तुं कश्चन ॥ १५०३ ॥ रक्षोघ्नस्तु पुमाञ्छ्वेतसर्षपे त्रि तु हन्तरि । अमनुष्ये रक्षसः स्याद् रसवत् त्वभिधेयवत् ॥ १५०४ ॥ रसयुक्ते रसवती पुनः स्त्री स्यान्महानसे | पञ्चरात्रे तु नलिङ्गं रात्रकं रभसोऽपठीत् ।। १५०५ ।। १. 'कम्पिलजी' क. ड., च. पाठः, २. 'पा' क. ब. पाठः, ३. 'जूक. ब. च. पाठः, ४. 'गेहे ह' क. ङ. च. पाठः, ५. 'पि' क. पाठः,