पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे पुरुषस्तु द्वयोर्मर्त्ये ना तु जन्तौ सशेफके । पुन्नागवृक्षे द्रुहिणे क्षेत्रज्ञे साङ्ख्यवेदिनि ॥ ११९५ ॥ पुलिन्दस्तु द्वयोर्मर्त्यजातिभेदेऽस्य लक्षणम् । किरात्यां निष्ट्यपूर्वायां शबराज्जात इत्यदः ।। ११९६ ।। निष्ट्यादनन्यपूर्वायां किरात्यां जानतेऽपि च । पुन्नागस्तु पुमान् पूज्यपुरुषे पुङ्गजे तथा ॥ ११९७ ॥ पुंसर्पे च तथा वृक्षे देववल्लभसंज्ञके । क्ली तु तत्प्रसवेऽथो ना पुलको रोमहर्षणे ।। १९९८ ।। रत्नभेदे च खड्गादिस्थितास्वणुषु राजिषु । रभसस्त्वाह गल्वर्कमणिदोषप्रभेदयोः ॥ ११९९ ॥ हरितालेऽप्यथ द्वे स्यात् कृमिभेदेऽथ शब्दवित् । शाकटायन आह स्म स्वशास्त्रे पुरुटः पुमान् || १२०० ।। स्त्रीपुंसयोश्च दम्पत्योः परैरसैहने भवेत् । संला(पस्तु?पे च)द्वयोस्तु स्याज्जलजन्तावथ त्रिषु ॥ १२०१ ॥ पुटितं पाटिते स्यूते क्ली तु वस्तिपुटे त्रि तु । पुष्पवत् स्यात् सकुसुमे स्त्री तु पुष्षवती भवेत् ॥ १२०२ ॥ रजस्वलायां क्लीवं तु पूरणं पूर्तिकर्मणि । अना तु पूरयत्यर्थे पूरणा स्त्री तु पूरणी ॥ २२०३ ॥ पुनर्नवाजातिभेदे स्वल्पेऽथो शल्मलावपि । पुनर्नवायां तु पुमान् पूरणः पूर्यते पुनः ॥ १२०४ ॥ येन त्रि तत्र ना तु स्यात् कलायाह्वयधान्यके । पूरकोऽयूपभेदे तु पूरिका स्त्री त्रिषु त्वदः ॥ १२०१ ॥ १. 'इसने' ग. पाठः, § गल्वर्कश्चषकः ।