पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
नानार्थार्णवसंक्षेपे

पर्जन्यस्येव वर्षासु वस्तूनि बहु वर्षतः ।
न किञ्चिदपचीयन्ते कोशाः प्रत्युत वर्धनाः ॥ ७ ॥
धर्मस्यैव समुच्छ्रायादधर्मस्य च निग्रहात् ।
सुखेन वृत्तेः साधूनामसाधूनां नियन्त्रणात् ॥ ८ ॥
अमुना राजराजेन कलिः कृतयुगीकृतः ।
बहुना किं प्रजल्पेन महात्मानोऽपि तद्गुणान् ॥ ९ ॥
शंसितुं कवयोऽशक्ताः किं पुनर्मादृशो जनः ।
महाग्रहारो राजेन्द्रचोलसंज्ञो महात्मनाम् ॥ १० ॥
सर्वविद्यासमृद्धानां श्रीमतामृषितेजसाम् ।
निवासो विप्रवर्याणां चोलेष्वासीत् प्रतिष्ठितः ॥ ११ ॥
महामाहेश्वराणां यस्तारुण्येष्वेव यज्वनाम् ।
राज्ञा राजेन्द्रचोलेन स्वनाम्ना स्थापितः पुरा ॥ १२ ॥
राष्ट्रस्यास्य समृद्धस्य शिरोभूषणसन्ततिः ।
तत्राग्रहारे वास्तव्यो वत्सगोत्रसमुद्भवः ॥ १३ ॥
सामवेदविदां मान्यः केशवस्वामिनामकः ।
श्रीराजराजदेवस्य सेवकोऽभूद् द्विजाग्रणीः ॥ १४ ॥
तं कदाचित् समामन्त्र्य सेवमानं महीपतिः ।
चिराच्चिकीर्षितं वस्तु स्मृत्वाज्ञापयदीदृशम् ॥ १५ ॥
आर्य ! वत्ससुखाया[१]लं कौतूहलमतीव मे ।
सलिङ्गेऽस्पष्टसाधूनां नाम्नां नानार्थवाचिनाम् ॥ १६ ॥
परम्पराया[२]स्त्वदृते न चान्यः शब्दवित्तमः ।
एकद्वित्रिचतुःपञ्चषट्स्वरैर्नामभिः क्रमात् ॥ १७॥
काण्डानि प्रतिकाण्डं च पञ्चाध्यायः[३] क्रमाद् यथा ।
स्त्रीपुन्नपुंसकैर्वाच्यलिङ्गैः सङ्कीर्णलि[४]ङ्गकैः ॥ १८ ॥


  1. 'वासकौ' ग. पाठः
  2. 'णां त्व' ख. पाठः.
  3. 'या यथाक्रमम्' ख. पाठः.
  4. 'वर्गकैः' घ. पाठः,