सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
एकाक्षरकाण्डे स्त्रीलिङ्गाध्यायः ।


अनेकार्थैरकारादिक्रमोपेतादिवर्णकैः ।
जिज्ञासितस्य शब्दस्य सुखदर्शनसिद्धये ॥ १९ ॥
इत्युक्तो राजराजेन शिरसादाय शासनम् ।
शास्त्रं कर्तुमुपाक्रंस्त राजराजोक्तवर्त्मना ॥ २० ॥
ओङ्कारममृतं ब्रह्म शिवमक्षरमव्ययम् ।
यमामनन्ति वेदेषु तं प्रपद्ये विनायकम् ॥ २१ ॥
यस्यार्धं वन्दे त्वा भव! हर ! महिला विलासिनी स्तननमिता ।
शिरसि सरिद् वीचीभिर्भवहरमहिलाविलासिनीस्तननमिता ॥ २२ ॥
बहुष्वाचार्यवाक्येषु बहुशः पुनरुक्तितः ।
पुनरुक्तान् विहायार्थानन्यार्थेष्वभिधास्यते ॥ २३ ॥
एकद्वित्रिचतुःपञ्चषट्स्वरैर्नामभिः क्रमात् ।
षट् काण्डाः प्रतिकाण्डं च पञ्चाध्याया यथाक्रमात् ॥ २४ ॥
स्त्रीपुन्नपुंसकैर्वाच्यलिङ्गैः सङ्कीर्णलिङ्गकैः ।
अनेकार्थैरकारादिक्रमोपात्तादिवर्णकैः ॥ २५ ॥
अस्त्रीविषयजातीनां जातिमात्रे नृता स्मृता ।
अर्थे योनिमति स्त्रीत्वं पुंस्त्वं मेढूवति स्मरेत् ॥ २६ ॥
द्वे द्वयोरिति वा शब्दावस्मिन्नर्थेऽवधारयेत् ।
ये तु शब्दाः प्रवक्ष्यन्ते स्थावरान्तरवाचिनः ॥ २७ ॥
तेषां स्वफलपुष्पेषु प्रतीयात् क्लीबलिङ्गताम् ।
अस्यार्थस्य यदा क्वापि पुनरुक्तिर्भविष्यति ॥ २८ ॥
एतस्यैव प्रपञ्चस्य स्म[]रणायेति मन्यताम् ।
स्त्रीपुन्नपुंसकानां ये शब्दाः स्युर्वाचकाः पृथक् ॥ २९ ॥
लिङ्गमाचक्ष्महे शब्दैस्तैरन्यत् परिभाष्यते ।
त्रि त्रिस्त्रिष्वित्यमी शब्दा वाच्यलिङ्गस्य वाचकाः ॥ ३० ॥


  1. ’स्मा’ ख. पाठः.