सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
left
एकाक्षरकाण्डे नानालिङ्गाध्यायः ।


मास्तु मासे निशानाथे पुमध्यायः समाप्तवान् ॥ २१/२ ॥

इत्येकाक्षरकाण्डे पुल्लिङ्गाध्यायः ।
अथैकाक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।

अथ क्लीबे खमाकाशे स्वर्गे छिद्रे गृहेऽभ्रके ।
नक्षत्रेन्द्रिययोर्ब्रह्मण्यथ हृच्चित्तवक्षसोः ॥ १ ॥

इत्येकाक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।
अथैकाक्षरकाण्डे वाच्यलिङ्गाध्यायः ।

अथाभिधेयलिङ्गे स्तो द्वे एवैकाक्षरे[१] मते ।
किं प्रश्नाक्षेपकुत्सानां [२] वितर्कस्य च गोचरे ॥ १ ॥
युङ् सहाये द्वितीयादिसमसङ्ख्ये[३] च वस्तुनि ॥ ११/२ ॥

इत्येकाक्षरकाण्डे वाच्यलिङ्गाध्यायः ।
अथैकाक्षरकाण्डे नानालिङ्गाध्यायः ।

इडीट् च त्रिषु नाथे स्त्री मेदिन्यां कस्तु ना नगे ।
अर्कानिलविरिञ्चात्मशब्दबुद्धिमनस्स्वपि ॥ १ ॥
अजयस्तु शरीरेऽपि पुंस्येवैनमभाषत ।
कं[४] नाम्न्यप्सु सुखे मूर्ध्नि गूर्ना यत्ने गुदे स्त्रियाम् ॥ २ ॥
गौर्नादित्ये बलीवर्दे ऋतुभेदर्षिभेदयोः ।
स्त्री तु स्याद् दिशि भारत्यां भूमौ च सुरभावपि ॥ ३॥


  1. 'रेष्विमे' क. ग. घ. पाठः.
  2. 'यां' क. घ. पाठः.
  3. 'ङ्ख्यादिव' ख. पाठः, 'ङ्ख्येयव ' ग. पाठः.
  4. 'क्ली' क, ग, घ, पाठः