नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु ।
अश्वानां प्रग्रहेऽप्येष [१] यत्साधारणनामसु ॥ ४ ॥
प्रग्रहस्य मरीचेश्च समाम्नायेऽमुमामनत् ।
धनुर्गुणे सुषुम्णाख्यरश्मिभेदे च भास्वतः ॥ ५ ॥
द्वयोस्त्वश्वे तथा ह्याह स्कन्दस्वाम्यृक्षु भूरिशः ।
माधवाचार्यसूरिश्च [२]को अद्येत्यृचि भाषते ॥ ६ ॥
समाम्नाये समाम्नातः स्तोत्रनामसु स त्रिषु ।
विकारयोर्लक्षणया दुग्धाभिषवचर्मणोः ॥ ७ ॥
चर्मणो गोविकारस्य विकारे श्लेष्मसंज्ञके ।
नृस्त्रियोरविशेषेण कश्चिदेनं समामनत् ॥ ८ ॥
अथ चित् स्यात् स्त्रियां ज्ञाने ज्ञातरि त्वेष भेद्यवत् ।
अथच्छिच्छेदने स्त्री स्याच्छेत्तरि त्वेष भेद्यवत् ॥ ९ ॥
आत्मचान्द्रमसायन्यो[३]र्ना ज्ञो ज्ञातरि तु त्रिषु ।
जूर्जवे स्त्री राक्षसे द्वे त्वशब्दोऽर्थे पुमांस्त्रि तु ॥ १० ॥
एकार्थे युष्मदर्थे च तेशब्दः क्रीडने स्त्रियाम् ।
क्रीडके त्रिषु सूर्ये तु दिवित्येष ध्वनिः पुमान् ॥ ११ ॥
स्त्री खे खर्गे च दृक् तु स्त्री ज्ञानदर्शनबुद्धिषु ।
नेत्रे च त्रिषु तु द्रष्टृज्ञात्रो [४] र्नृ द्वे हरे हये ॥ १२ ॥
यदा त्वस्य स्त्रियां वृत्तिस्तदा नारीति दृश्यताम् ।
दिग्देशकालविषये पूर्वेऽर्वाचि च भेद्यवत् ॥ १३ ॥
प्राग्भवे प्राङ्मुखे चैव प्राची तु स्त्री हरेर्दिशि ।
प्रथमापञ्चमीसप्तम्यर्थेष्वव्यय एव वा ॥ १४ ॥