पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
नानार्थार्णवसंक्षेपे

धीस्तु कर्मणि बुद्धौ च धूस्तु यानमुखेऽङ्गुलौ ।
भारे विकृतगीतौ च गायत्त्राह्वयसामनि ॥ ५५ ॥
साम्नां द्रष्टृषु चैकेषु नौर्वाक्काल[१]तरिष्वथ ।
पूर्देहे नगरे बुद्धौ भास्तु रश्मौ रुचावपि ॥ ५६ ॥
भूर्भूम्यां स्थानमात्रे च सौराष्ट्र्यां व्योमदेहयोः ।
मा पार्वत्यां च लक्ष्म्यां च निर्लिङ्गोऽसौ निवारणे ॥ ५७ ॥
मृन्मृत्तिकायां भैषज्यभेदे तुवरिकाह्वये ।
मृच्छब्दो जलवाच्यस्ति धान्तदान्तत्वसंशयात् ॥ ५८॥
समाम्नायसमाम्नातो निरूप्यात्र निवेश्यताम् ।
रुक् प्रभाकान्तिवाञ्छासु रुक् तु स्याद् व्याधितोदयोः ॥ ५९ ॥
वाग् वाण्यां गौणवृत्त्या तु शब्दे वक्रे च [२] केचन ।
श्रीरिन्दिरायां शोभायां स्यात् संपत्तिलवङ्गयोः ॥ ६० ॥
प्रथमायां विभक्तौ च व्याचष्टे भगवानमू[३]म् ।
स्त्री प्रियङ्ग्वाह्वये वृक्षे वम्रीवनितयोरपि ॥ ६१ ॥
लग्नाच्च सप्तमे राशौ लिङ्गभेदे च शब्दगे ।
स्रुक् स्रुवे शोषणे गत्यामित्यध्यायः समाप्तवान् ॥ ६२ ॥

इत्येकाक्षरकाण्डे स्त्रीलिङ्गाध्यायः ।





अथैकाक्षरकाण्डे पुल्लिङ्गाध्यायः ।


अथैकाक्षरपुल्लिङ्गा अकारो विष्णुवेधसोः ।
कण्ठस्थानस्वरे चाथ स्यादुकारो हरे हरौ ॥ १ ॥
ओष्ठस्थानस्वरे चाथ ग्लौर्वपुर्ग्लानिचन्द्रयोः ।
आकाशे दिवसे च द्युः[४] पुमानात्मनि पौरुषे [५] ॥ २ ॥


  1. च' ख. पाठः.
  2. 'तु' ख. पाठः.
  3. 'मु' क. घ. पाठः.
  4. 'द्यु क्लीबमह्नि गगने च' इति तु मेदिनी । 'आकाशे दिवसे च द्युः' (पु. २७०
    श्लो. ६०) इति वैजयन्ती ।
  5. 'पूरुषे' इति स्यात् ।