पृष्ठम्:नवरात्रप्रदीपः.djvu/९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
उपक्रम

वल्क्योऽपि-

इज्याऽऽचारदमा हिंसा दान स्वाध्यायकर्म च ।
अय तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥

 आत्मदर्शनमात्मलाभः। इत्यात्मलाभस्य परमधर्मत्वं प्रत्यपीपदत् । तत्र यथाऽधिकार च व्यवस्था । एव च क्रियाया धर्मत्वं वदता क्रियाजन्याऽपूर्वस्य च धर्मत्व वदतां परस्पर न कोऽपि विरोधः । निरुक्तदिशा व्यवस्थोपपत्तेः । अत एव इज्याचारदमा हिंसा’ इति याज्ञवल्क्युक्त सङ्गच्छते । किं च ‘‘आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यादिश्रुत्यादिप्रतिपादितस्य मुख्यधर्मस्यात्मदर्शनस्य सम्पादने शोभनाचार पुरुषमन्तरा नाऽन्योऽधिकारी सम्भवति । आचा- रश्च क्रिया तेन क्रियायाः परमधर्मत्व मन्यमानानामुक्तिः सा- धीयस्येव । अत एव परमाप्तेन भगवता मनुना

आचारः परमो धर्मः श्रुत्युक्तः स्मार्त्तः एव च ।
तस्मादस्मिन्सदा युक्तो नित्य स्यादात्मवान्द्विजः ॥

 इत्याचारस्यैव परमधर्मत्वं प्रतिपादितम् । एव हि धर्मार्थकाममोक्षाणां चतुर्णा व्यवस्था । उभयविधस्याऽपि धर्मस्य, पुरुषार्थचतुष्टयस्येति यावत् जिज्ञासायां श्रुत्यादिषु प्रमाणेषु पर प्रमाण श्रुतिः ।

धर्म जिज्ञासमानाना प्रमाणं परमं श्रुतिः।

 इति मनुवचनात् । एव च सुखं धर्माचरणमन्तरा न सम्भ वतीति सिद्धम् । धर्माचरण च कालज्ञान विना न सम्भवति ।