तथा हि "वसन्ते ब्राह्मणोऽग्नीनादधीत" “वसन्ते ब्राह्मणमुपनयीत "दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेन” "श्राद्धं कुर्वन्नमावास्या" इत्यादिश्रुतिस्मृतिषु तत्तत्कालविशेषे तत्तत्कर्म विहितम् । तच्च ऋते कालज्ञानं कथमुपपद्येत ? अतो धर्माचरणे कालज्ञानं नितरामपेक्षितम् । अत एव लगधाचयैरुक्तम्--
वेदा हि यज्ञार्थमभिप्रवृत्ताः
कालाऽनुपूर्वा विहिताश्च यज्ञाः । |
तस्मादिद कालविधानशास्त्र
यो ज्योतिषं वेद स वेद यज्ञान् ॥ इति । |
किं च लोकेऽपि यथा वर्षाकाले बीजमुप्त सत् फलति न ग्रीष्मे इति प्रत्यक्षतयाऽनुभूयते, तस्मात् तत्तद्योग्यकाल एव कृत कर्म फलोत्पादकं भवति नान्यथा । एवं श्रुत्याद्युक्तकर्माण्यपि कालं कृतान्येव स्वेष्टफलोत्पादने शक्तानि भवन्ति । एवं च धर्माचरणे कालनिर्णयस्याऽत्यन्तमावश्यकतेति सिद्धम्। अथ को नाम कालोऽयमिति विचारावसरे कालपदस्य
कालो मृत्यौ महाकाले समये यमकृष्णयोः । |
इति निघण्टूक्तेः, महाकालाद्यर्थाः पुरः समायान्ति । तत्रेदं विचार्यम्, यदेतेऽर्थाः कथमुद्भूता इति । सूक्ष्मतत्त्वदर्शिनामिदमपरोक्षं यदेतत् मेयमातृमानलक्षणं सर्वं परमार्थत एकमपि बहुधाऽवभासते तदेव ब्रह्ममहाकालपरमशिवपरमात्मादिशब्दैर्व्यवह्रियते । तथा हि तद्ब्रह्म द्विविध परं चापरं च । “ द्वे ब्रह्मणी वेदितव्ये परं चापरं च” इति श्रुतेः । तत्र परं निष्कलम् । अपर