पृष्ठम्:नवरात्रप्रदीपः.djvu/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

सकलम् । एतदेव सर्वशक्तिमत् जगन्नियामकं जगदात्मकं च "जगन्नियन्ता जगदात्मकश्च" “एको हि रुद्रो न द्वितीयाय तस्थु र्य इमाल्लोकानीशत ईशनीभिः” । इत्यादिश्रुतिप्रतिपादितम् । तत्र सर्वासां शक्तीना प्रवरा शक्तिर्महाकालीत्युच्यते । तत्सम्बन्धेन ब्रह्मणोऽपि महाकालत्वम् । यत इयमेव निखिलं तत्त्वजात कलयति । तत्र तत्त्व जाते भावनां क्रमाऽवभासकं कालाऽभिध तत्त्वमस्ति । तस्याऽपि कलनादस्या महाकालीत्त्वम् । मृत्युना हि भावाभाससमाप्तिर्भवति, नाम भावस्य काले प्रलीनत्वं भवति ततः कालपदं मृत्योरपि बोधक भवति । इत्यादि तत्तत्कारणैस्तत्तद्वोधकं कालपद भवति । कालेनैव हि ‘जायते’ 'अस्ति’ इत्यादिव्यवहाराः समुद्भूताः । तदुक्तं वाक्यपदीये- एकमेव यदाम्नातं भिन्नं शक्तिव्यपाश्रयात् । अपृथक्त्वेSपि शक्तिभ्यः पृथक्त्वेनेन वर्तते । अव्याहताः कला यस्य कालशक्तिमुपाश्रिताः। जन्मादयो विकाराः षट् भावभेदस्य योनयः । एकस्य सर्वबीजस्य यस्य चेयमनेकधा । भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः ॥ इति । तदिदं कालनिरूपणमतिगहनमन्यदा यथाऽवकाश विचा- रयिष्यते । सोऽय कालः सर्वत्र सर्वैरपि दार्शनिकैरङ्गीकृत एव । तथाहि तत्र तत्र व्यवहारास्ते च सङ्क्षेपतः प्रदर्श्यन्ते । तथाहि श्रुतौ