पृष्ठम्:नवरात्रप्रदीपः.djvu/१२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
नवरात्रप्रदीपभूमिकायाम्-

‘कृतं यत्स्वप्नी विचिनोति काले" इति बह्वृचाः "अहमेव कालो नाह कालस्य" इति तैत्तिरीयकाः "का च सन्ध्या कश्च स‌न्ध्यायाः कालः” इति सामगाः इत्यादि । स्मृतौ यथा सृष्टिप्रकरणे मनुः-'कालं कालविभक्तीश्च" इति । याज्ञवल्क्यः-‘श्राद्धकालाः प्रकीर्तिताः’ आपस्तम्बः-"अतिक्रान्ते सावित्र्या काल ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरेत्" (आप ०ध०सू० १-१-१-३३) गौतमः-'संवत्सरः षण्मासाश्चत्वारस्त्रयो द्वावेकश्चतुर्विंशत्यहोद्वादशाहः षडहस्त्र्यहोऽहोरात्र इति कालाः’ (गौ०ध०सू० १९- १८) इति । बौधायनः --

"शरीरं बलमायुश्च वयः कालं च कर्म च ।
समीक्ष्य धर्मविद्बुद्ध्या प्रायश्चित्तानि निर्दिशेत्" (बौ०ध०सू० १-१-१६) इति । एवमन्यान्यपि स्मृतिषूदाहार्यानि । महाभारते --

प्रहरौ घटिकान्यूनौ प्रहरौ घटिकाऽधिकौ ।
स काल: कुतपो ज्ञेयः पितृणा दत्तमक्षयम् ॥

 अन्यत्र पुराणेऽपि--

अनादिरेष भगवन् कालोऽनन्तोऽजरः परः ।
सर्वगत्वात्स्वतन्त्रत्वात्सर्वात्मत्वान्महेश्वरः ।

 वैशेषिके "अपरस्मिन्नपर चिर क्षिप्रमिति काललिङ्गानि’ (वै०सू०२-२-६) येऽपि साङ्खायादयः कालरूपं तत्त्वान्तरं न मन्यन्ते तेऽपि आर्थिकं कालतत्त्वमूरीकुर्वन्त्येव | । पृथगनुक्तिस्तु तत्तच्छास्त्रीयप्रधानतमप्रमेयेषु प्रकृतिपुरुषविवेकादिष्व-