पृष्ठम्:नवरात्रप्रदीपः.djvu/१३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
उपक्रम

नुपयोगित्वेन । तथाहि साङ्ख्यशास्त्राचार्येण पञ्चविंशतितत्त्वविवेचनाऽवसरे

 मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
 षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः (मा०का०)
 इत्यत्र कालाऽभिधं तत्त्वान्तरमनुक्त्वैव

साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तर करणम् । (म०का०)

 इत्युक्तम् । तेन कालतत्त्व साङ्ख्याचार्याणामप्यनुमतमेवेति सुदृढ वक्तुं पार्यते । कालपदार्थाऽविवेचन त्वनुपयोग।त् । तथाह्याहुः साङ्ख्यतत्त्वकौमुद्यां वाचस्पतिमिश्राः-"कालस्तु वैशेषिकाSभिमत एको नातीतानागतादिभेद प्रवर्तयितुमर्हति । तस्मादयं यैरुपाधिभेदैरतीतानागतादिभेदभावं प्रतिपद्यते सन्तु त एवोपाधयो व्यवहारहेतवः कृतमन्तर्गडुना कालेनेति साङ्ख्याचार्याः" इति । तथा योगशास्त्रेऽपि कालतत्त्वं पृथगनङीकृत्याऽपि ‘स तु दीर्घकालनैरन्तर्यंसत्कारासेवितो दृढभूमिः" (यो० सू०१ १४) ‘‘जातिदेशकालसमयाऽनवच्छिन्नाः सार्वभौम महाव्रतम्। (यो०सू०२-३१) इत्यादौ तत् व्यवहृतम् । एवमेव तत्र तत्रोदाहार्यम् । किं बहुना आविद्वदङ्गनागोपालं प्रमिद्धस्य कालस्य कथमपह्नवः शक्यते कर्तुम् । साक्षात् परम्परया वा सर्वेऽप्यत एव शास्त्रज्ञाः कालमङ्गीकुर्वन्ति । भिन्नभिन्नरूपेण गृहन्तीत्यन्यदेतत् । सर्वेऽपि कालमङ्गीकुर्वन्तीति श्रुतावेव प्रतिपादितम् । तथा हि तैत्तिरीयका अरुणकेतुके मन्त्रमामनन्ति-