पृष्ठम्:नवरात्रप्रदीपः.djvu/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
नवरात्रप्रदीपभूमिकायाम्-

स्मृतिः प्रत्यक्षमैतिह्यमनुमानचतुष्टयम् ।
एतैरादित्यमण्डल सर्वैरेव विधास्यते ॥

 न च श्रुत्याऽनया स्मृत्यादिकमादित्यमण्डलसाधकमित्युक्त न कालसाधकमिति वाच्यम् । मण्डल हि सार्वजनीनप्रत्यक्षसिद्धम् । न तत्र स्मृत्याद्यपेक्षा । तस्मात् कालविवक्षयैव कालसाधकमण्डलसाधकत्वं स्मृत्यादीना प्रतिपादितमिति वाच्यम्। कालविवक्षा च-

सूर्यो मरीचिमादत्ते सर्वस्माद् भुवनादधि ।
तस्याः पाकविशेषेण स्मृतं कालविशेषणम् ।

 इत्यग्रेतनपठितमन्त्रेणाऽवसीयते । एव च कालस्य सर्वत्र व्यवहारोऽस्तीति सिद्धम् । स किंस्वरूपः कुत्र कुत्र कथं कथ चोक्त ते सर्वं यथाऽवकाशमन्यत्र विचारयिष्यते । साम्प्रतं प्रकृताऽनुसरणं साम्प्रतम् ।

 तदेवं धर्मशास्त्रे कालनिर्णयस्यात्यन्तिकीमावश्यकतां मनसि विभाव्य अधुनाऽवधि बहुभिर्महर्षिभिः परःसहस्त्रैर्विद्वद्भिः कालनिर्णयाः प्राणायिषत । तेषु बहवो निबन्धाः कालोदरदरीकोणेष्वेव निलीनाः। ये च समुपलभ्यन्ते तेष्वपि बहवो विदुषा महात्मनां गृहे वेष्टनाऽवगुण्ठिता गर्भागारकोणेषु विराजन्ते । मद्दृष्टेषु कालनिर्णयेषु नवरात्रमात्रविषयमवलम्ब्य मतान्तरखण्डनमण्डनपुरःसरं विहितेषु निबन्धेषु प्रस्तुतो निबन्धः धर्माधिकारिनन्दपण्डिताऽपराभिधानविनायकपण्डितविरचितो नवरात्रप्रदीपोऽतिसमीचीनः सर्वेषु निबन्धेषु । सोऽयमत्युपयु-