पृष्ठम्:नवरात्रप्रदीपः.djvu/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
ग्रन्थपरिचयः


क्तोsयद्यावधि न कुत्रISपि मुद्रित इति सशोध्य सम्मुद्य प्रकाशितः सहर्ष सविनयं सादर च तत्र भवतां भवतां नवरात्रनिर्णयजिज्ञासूना प्राचीननिबन्धसमवलोकनकुतुहलानां मनीषिधुरीणानां करकमलेषूपहारीक्रियते । भवन्तोऽपि शास्त्रपरिपूतेन समीक्षणेन ग्रन्थमेन समीक्ष्य परमानन्दं प्राप्स्यन्तीति दृढमहं विश्वस्य ग्रन्थपरिचयाय प्रयते ।

---

ग्रन्थपरिचयः

  ग्रन्थोऽयं काशीस्थमहाराष्ट्रभूसुरवरेण धर्माधिकारिकुलकमलदिवाकरेण पदवाक्यप्रमाणपारावारपारीणधुर्गणेन महामहिमशालिना धर्मशास्त्रमर्मज्ञेन नानानिबन्धविधायिना रामपण्डितात्मजेन नन्दपण्डिताऽपराभिधानेन विनायकपण्डितेन प्रणीतो विजयतेतराम् । अथ कोऽयं विनायकपण्डितः कदा च समभूत् के के निबन्धा अनेन विहिता इति सर्वमग्रे स्फुटीकरिष्यते । अस्य ग्रन्थस्याऽन्वर्थकं ‘नवरात्रप्रदीप’ इति नाम । अयं च केवलं नवरात्रनिर्णयविषयमेवाऽवलम्ब्य विहितो निबन्धः । अत्र निरूपिता विषया विषयसूच्या प्रदर्शिता एवेति पुनरत्र वर्णन पिष्टपेषणप्रायं भविष्यतीत्युपेक्ष्यते । जिज्ञासुभिस्तत्रैव द्रष्टव्यम् ।

 अस्मिन् किल लोकत्रयीमपि निजगुणगणमहिम्ना अति वर्त्तमाने कर्मभूमौ भारते वर्षे अनादिनिधनधर्मानुयायिनामस्माकं नवरात्रनिर्णयस्य कियत्यपेक्षेति सर्वजनविदितमेव ।