इत्थं चेमौ रजनिदिवसौ दोलयन्वाऽपि चाक्षौ |
कालः काल्या सह बहुकलः क्रीडति प्राणिशारैः ॥ |
हा हन्त तथाऽपि न जहति मोहनिद्रामुद्रितलोचना निज सर्वस्वनाशकारिणीं दुर्बुद्धिम् । न च निजधर्माचरणे चित्तमर्पयन्ति । भवतु इदमपि कालस्यैव माहात्म्यम् । अयि जनाः ! धर्माचरणमन्तरा सुखसम्भावनाऽपि वर्त्तते किमु ? जागर्त्ति च प्राणिमात्रस्य हृदये 'निरन्तर निरतिशयं सुखमेव मामायातु न दुःखलशोऽपि जात्वपि' इति लालसा । ततश्च सुखप्राप्त्यै आजीवनवियोगं प्रवर्तते । परं पारमार्थिक सुखमजानानो जीवजाह प्रयतमानोऽपि तत्सुख नैव लभते पुरुषः । कुतो वा लभताम् ; यतो हि धर्ममन्तरेण सुखोपलब्ध्युपाय एव नास्ति । अतो धर्म एव परमपुरुषार्थ इति वास्तवम् । अत एव
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । |
इति श्रूयते । धर्मस्य वास्तवं स्वरूप धर्मोऽपि वेत्तु प्रभवति न वेति को जानाति, तथाऽपि यथामनीषं विचार्यमिति प्रसङ्गापतितं विचार्यते । धर्मो हि द्विविधः साधनस।ध्यभेदात् । तत्र त्रिवर्गरूप आद्यः साधनरूपः । आत्मदर्शनाकारोSपरः साध्यस्वरूपः । स एव परं पदम् , स एव मह।काल:, स एव परमो धर्मः, किं बहुना स एव सर्वस्वम् । तत्प्राप्तिरेव सर्वाप्ता श्रुतिस्मृत्यादीनां सारम् । सैव चरमा सीमा । अत एवाहाऽऽपस्तम्बः-“आत्मलाभन्न परं विद्यते" अत एव याज्ञ-