सामग्री पर जाएँ

पृष्ठम्:नवरात्रप्रदीपः.djvu/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६
नवरात्रप्रदीपभूमिकायाम्-

धौम्येन-

प्रतिपदादिपूर्णान्तं दिनभेदेन पूजयेत् । इति ।

 अत्र च पूर्णायां दशम्यामन्तश्रवणात्पारणायाश्च व्रतान्तरूपत्वाद्दशम्यां पारणमिति चेन्न । स्यात्समाख्ययैवोपवासनिर्णयः यद्युपवासेष्ववच्छेदकसङ्ख्याकाङ्क्षायां प्रमाणान्तरं सङ्ख्याप्रापकं न स्यात् । अस्ति च तत्--

दुर्गोत्सवे स्मृतं देव उपवासस्य सप्तकम् ।
अष्टमे दिवसे होमस्ततः किंचित्तु भक्षयेत् ॥

 इति रुद्रयामलीयं वचनम् । श्रुतिश्चेयं 'उपवासस्य सप्तकम्' इतिसमाख्यातो बलवती । ततो न्यूनबला समाख्या नोपवासेष्ववच्छेदिका सङ्ख्यां विनियुङ्क्त । तथा चोपवासानां नवसङ्ख्यत्वेन नवम्यभिव्याप्तौ दशम्यां पारणमिति कुत एतत् ? किं च "नवम्यां पारणं कुर्यात्" इत्यादिपारणाकालविधायकश्रुतिसद्भावेनार्थेन लिङ्गेन तत्कल्पना युक्ता । अत्र ‘पूर्णान्त’ इतिवचनबलेन दशम्यां पारणमित्युच्यते तदपि न । तस्याऽपि पूर्णायां दशम्यामन्तो विसर्जनं यथा भवति तथा पूजयेदित्यर्थपरतयाऽवश्यं व्याख्येयत्वात्, अन्यथा नवमीपारणविधायकवाक्यैर्विरोधो दशमीविसर्जनविधायकवाक्यैर्भिन्नमूलकता चाऽस्य केन वार्येत । तस्मान्न दशम्यां पारणं किं तु नवम्यामेव" इति सविस्तरं ग्रन्थ एवाऽवलोक्यम् । लोके चेदानीं भट्टमताऽनुयायिनः कांश्चिद्विहाय सर्वत्र नवमीपारणैव समाद्रियमाणा दरीदृश्यते । ये हि प्रतिपद्विषये भट्टमतमङ्गीकुर्वन्ति तेऽपि पार-