मतान्तरखण्डनपूर्वकं महता विस्तरेण प्रतिपादयन्ति तत्तत्रैव द्रष्टव्यम् । स्मृतिकौस्तुभकारानन्तदेवा अपि नवमीपारणावादिनः तत्तत एवाऽवसेयम् । रघुनन्दनभट्टाचार्यस्तदनुयायिनश्च दशमीपारणावादिनः । प्रकृतग्रन्थकृतस्तु नवमीपारणवादिनः तत्सङ्क्षेपतो यथा- "नवरात्रे नवम्यां पारणं कार्यम् । नवमीपारणविधायकवचननिचयात् । तादृशविधिलिङ्गदर्शनात्, सप्तोपवासविधिबलात्, अष्टमीपर्यन्तोपवासविधेः, सप्तोपवासलिङ्गदर्शनात्, व्रतस्य नवमीपर्यन्तताश्रवणात् , दशमदिवसे पारणनिषेधात् , दशमीपारणनिषेधात्, दशमीविद्धनवमीपारणनिषेधात्, अधिकोपवासनिषेधाच्चेति दशहेतुसद्भावात् । ननु व्रतस्य नवरात्रसमाख्यया समाख्यातत्वात् न्यायतो दशम्यां पारणं प्राप्तम् । तथा हि समाख्याऽपि श्रुत्यादिवद्विनियोजिका । नवरात्रशब्दश्च नवानां रात्रीणां समाहर इत्यस्मिन्नर्थे निष्पन्नो यौगिकः । यौगिकश्च शब्दः समाख्येत्युच्यते । तेन-
नवरात्रोपवासेन यथाशक्त्या नृपोत्तम । |
इत्यादिवाक्येषु नवरात्रशब्देनैव तदुपादायोपवासविधानान्नवमीमभिव्याप्योपवाससिद्धौ दशम्यां पारणमर्थतः सिद्ध्यति । किं च "नवरात्रोपवासेन" इत्यादौ उपवासेष्ववच्छेदकसङ्ख्याकाङ्क्षायां तिथ्यवच्छेदिकयैव सङ्ख्ययैवोपवासपरिच्छेदान्नवमीपर्यन्तत्वेन दशम्यां पारणमर्थसिद्धमेवेति । उक्तं च