पृष्ठम्:नवरात्रप्रदीपः.djvu/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
नवरात्रप्रदीपभूमिकायाम्-

 इति दशम्यामेव विसर्जनमुक्तम् । एवं सति यत्केषांचिद् भ्रान्तानां नवमीपारणाऽऽचरणं तन्मूलभूतवचनकल्पनं च तत्सर्वं शिष्टैः कदाचिदष्टमीयुक्तनवम्यां नवमीकृत्ये जाते द्वितीयनवम्यां क्रियमाणां पारणामुपलभ्य तत्र नवमीप्रयुक्तत्वभ्रान्त्या प्रवृत्तं शक्तिभ्रान्त्येवाऽसाधुशब्दप्रयोगे इत्युपेक्षणीयम्" इत्यादिना दशम्यामेव पारणां स्थापयन्ति । कमलाकरभट्टाश्च "अथ नवरात्रपारणानिर्णयः सा च दशम्यां कार्या" "आश्विने मासि शुक्ले०-सप्तम्यादि यथाक्रमम्" इति हेमाद्रौ धौम्यवचनात् ।

नवमीतिथिपर्यन्तं वृद्ध्या पूजाजपादिकम् ।

 इति प्रागुक्तवचनैर्नवमीपर्यन्तं प्रधानभूतपूजाद्युक्तेरुपवासादेश्चाङ्गत्वेन तत्पर्यन्तत्वादादिशब्देनोपवासोक्तेः पूर्वोक्तत्रिरात्रव्रते नवम्या अप्युपोष्यत्वाच्च" इत्यादिना "यानि तु कैश्चिल्लिखितानि नवम्यां पारणाविधायकानि वचनानि तानि हेमाद्यादिविरुद्धत्वान्निर्मूलानि । समूलत्वेऽपि यदा दिनद्वये नवमी तदा द्वितीयदिने उपोष्यतिथ्यन्ते पारणां न किं तु नवमीमध्ये कार्येत्येव नेयानि शिवरात्रिपारणावत्" इत्यन्तेन ग्रन्थेन निर्णयसिन्धौ दशम्यामेव पारणा कर्तव्येति प्रतिपादयन्ति । तत्सदुपाख्यरामभट्टा अपि कृत्यरत्नावलीनिबन्धे-"पारणस्याऽपि नियमत्यागरूपस्य । विसर्जनकालोत्तरत्वात्तदपि विसर्जनोत्तरं दशम्यामेव कर्तव्यम् अत एव हेमाद्रौ धौम्यवचने नवमीपर्यन्तं व्रतमुक्तम्" इत्यादिना ग्रन्थेन दशमीपारणापक्षमेव स्थापयन्ति । पुरुषार्थचिन्तामणिकारास्तु नवम्यां पारणा कार्या इति