पृष्ठम्:नवरात्रप्रदीपः.djvu/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३
ग्रन्थपरिचयः

त्तः। अन्यथा चाऽनवस्थितशास्त्रार्थापत्तेः । यदा कदाचित्तिथिवृद्ध्या प्रसक्तौ दशम उपवासो निषिद्ध्यते” इत्यादिसुविस्तृतद्वैतनिर्णये । तत्तत्रैवाऽवलोक्यम् । रघुनाथभट्टा अपि -

आश्विने मासि शुक्ले तु कर्तव्यं नवरात्रकम् ।
प्रतिपदादिक्रमेणैव यावच्च नवमी भवेत् ॥
त्रिरात्रं वाऽपि कर्तव्यं सप्तम्यादि यथाक्रमम् ।


 इति भविष्योत्तरवचनात्,

लब्धाऽभिषेका वरदा शुक्ले चाऽऽश्वयुजस्य तु ।
तस्मात्सा तत्र सम्पूज्या नवम्यां चण्डिका बुधैः ॥

 इति भविष्यवचनाच्च नवम्यां प्रतिपदादित्वपूजा आवश्यकीत्यर्थाद्दशम्यां देवीविसर्जनं नियमत्यागश्च । अत एव "केशसंस्कारद्रव्याणि” इत्यारभ्य “भुक्त्वेह परमान् भोगान्" इत्यन्तं भविष्यपुराणोक्तप्रतिपदादिविशेषपूजाप्रकारेऽपि नवमीपर्यन्तं पूजामुक्त्वा दशम्यामेव विसर्जनमुक्तम् । कालिकापुराणेSपि कल्पान्तरे रामरावणयोर्जयपराजयार्थं प्रतिपदि देव्याः प्रबोधनं द्वितीयाप्रभृत्यष्टमीपर्यन्त रामरावणयुद्धदर्शनपूर्वक नवम्या कृतस्य रावणवधस्य दर्शनं चोक्त्वा--

निहते रावणे वीरे नवम्यां सकलैः सुरैः।
विशेषपूजां दुर्गायाश्चक्रे लोकपितामहः ॥

 इति नवम्यां देव्याः विशेषपूजामुक्त्वा, तेनैव च प्रतिपत्प्रभृति पूजां सूचयित्वा-

ततः सम्प्रेषिता देवी दशम्यां शाबरोत्सवैः ।