पृष्ठम्:नवरात्रप्रदीपः.djvu/३३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
२७
ग्रन्थपरिचयः

णाविषये न तत्सम्मन्यन्ते । दशमीपारणयाः खण्डनं प्रकृतग्रन्थग्रन्थयित्रा बहुसमीचीनया रीत्या व्यधायि । नवमीपारणायां च कारणदशकं प्रादर्शि । इत्थं च दशमीपारणावादिनां भट्टप्रभृतीनां नवमीपारणावादिनां धर्माधिकारिप्रभृतीनां च परस्परं मतभेदः प्रदर्शितः । किं च इदमप्यत्राऽवधेयम् । द्वैतनिर्णयादिभट्टग्रन्थेषु नवरात्रे उपवासविशिष्टायाः पूजायाः प्राधान्यं दृश्यते पूजायाः मुख्यकालश्च पूर्वाह्णः पारणं च दशम्याम् । प्रकृतग्रन्थकारमते च केवलपूजायाः प्राधान्यम् । पूजायाः मुख्यकालश्च नक्तम् । पारणं नवम्यामेव विसर्जनं तु दशम्याम् । इति । "वस्तुतस्तु प्रकृते पूजाया एव प्रधानत्वात्तदन्तस्य विसर्जनस्य दशम्यनुष्ठीयमानतया तदन्तःपातिनः पारणस्य व्रतप्रयोगबहिर्भावः शङ्कापथमेव नाऽवतरतीति दिक्” इति प्रकृतग्रन्थकृदुक्तरीत्या स्पष्टमिदं ज्ञायते यत् पारणं व्रतरूपमेव । तथैवाग्रे कण्ठरवेणैव प्रतिपादितं तत्तत्रैव द्रष्टव्यम् । यदा पूर्वदिने अष्टमी, नवम्याः क्षयवशाच्चोत्तरदिने दशमी तदा दशम्यामपि पारणं भवति । अन्यथा कर्मलोपः स्यात् । दशमीपारणविधायकवाक्यानि च तद्विषयाण्येव प्रकृतग्रन्थमते । द्वैतनिर्णयनिर्णयसिन्धुकालतत्वविवेचनादिदशमीपारणसमर्थकग्रन्थखण्डनदर्शनरसिकैः 'पुरुषार्थचिन्तामणि'रवलोकनीयः । तत्र च नामग्राहमेषां खण्डनं दृश्यते । अत्र चेदमालोचनीयम्'कतरः पक्षो युक्ततरः' इति । यद्यपि यथा कुलधर्मः सर्वत्रापि व्यवस्था वर्तते, तेन च यस्य कुलपरम्परया यादृशी रीतिस्तथैव