पृष्ठम्:नवरात्रप्रदीपः.djvu/१५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०५
पारणनिर्णयः

परेध्युश्च षड्दण्डाऽधिका वा नवमी तदा परेद्युरेव पारणा। पूर्वेधुर्नवमीमिश्राऽष्टम्या उपोष्यत्वात्परेद्युः पारणकाले दशम्यभावाच्च । इतरथा पुनस्त्रिमुहूर्त्तन्यूनाया अष्टम्याः सत्त्वेऽप्यग्राह्यत्वेनाऽप्रयोजकत्वात्पूर्वेद्युरेव पारणेति । तथा च लघुतिथिनिर्णये पद्मपुराणम्-

 अष्टम्या सहिता रिक्ता न कदाचित्परायुता।
 चामुण्डापूजनं कृत्वा पारणं च ततः परम् ॥ इति ।

अष्टमीसाहित्यं चोदयव्यापित्वेन न त्रिमुहूर्तादिसत्वेन, तथात्वेनोपोष्यतापत्तेः । तथा देवीपुराणम्-

 अष्टम्यामुदिते सूर्ये दिनान्ते नवमी भवेत् ।

 पारणे सा तिथिः प्रोक्ता बलिदान परेऽहनि॥ इति । परेऽहनि अह्नः परभागे।

 अत्राऽपराह्निके काले बलिदानं प्रशस्यते ।
 दशमी वर्ज्जयेत्तत्र नाऽत्र कार्या विचारणा ॥

इति ब्रह्मवैवर्त्तात् । अत्र नवम्या प्रक्रमात् परेद्युः (?) रत्वे तु दशम्यां बलिदानप्रसङ्गः। कथं चिदौदायिकनवमीपरत्वे च पूर्वेद्युः पारणा, परेधुश्च बलिदानमित्ति