पृष्ठम्:नवरात्रप्रदीपः.djvu/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०६
नवरात्रप्रदीपे-

महदेव वैशसम् । रुद्रयामलेऽपि-

  अष्टम्या सह कार्या स्यान्नवमी पारणादिने ।
  यो मोहाद्दशमीवेधे नवम्यां चण्डिकां यजेत् ।।

 पारणं च प्रकुर्याद्वै तस्य पुण्यं निरर्थकम् । इति । यदा पुनः पूर्व्वेद्युः षड्दण्डा अष्टमी परस्ताच्च नवमी परेधुश्च क्षयवशादल्पा नवम्यथ वा नवम्यभावस्तदा पूर्व्वेधुरष्टम्या अवश्योपोष्यत्वात्परेद्युरल्पायामपि नवम्यां पारणं कार्यम् । पूर्वोक्तवचननिचयात् । सर्व्वथा तदभावे यद्यपि दशम्यां पारणनिषेधस्तथापि तत्रैव पारणं कार्यम्, न पूर्व्वेद्युः । अङ्गाङ्गस्य पारणाकालस्याऽनुरोधन प्रधानानामुपवासानां सङ्ख्याकालबाधस्यान्याय्यत्वात् । तस्मात्प्रधानोपवाससङ्ख्याऽनुरोधेनाऽङ्गभूतपारणाकालव्यवस्थापनं युक्तमिति । यत्पुनः “यो मोहाद्दशमीवेधे” इत्यादिवेधपदं तदपि पूर्वोक्तयुक्त्या पारणाकालीनदशमीयोगमात्रपरमेव न तु सायङ्कालीनत्रिमुहूर्त्तवेधपरम् । तस्याऽप्रयोजकत्वात् । तादृशदशमीवेधस्याऽपरिहार्यत्वेन पारणासङ्कटापत्तेश्चेति ।