पृष्ठम्:नवरात्रप्रदीपः.djvu/१४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०४
नवरात्रप्रदीपे-

    अथाऽष्टमः ।
ब्रह्माण्डपुराणे

 दशमीमिश्रित यत्र पारणे नवमी भवेत् ।
 सप्तजन्मकृतं पुण्यं तत्क्षणादेव नश्यति ॥
 यो मोहाद्दशमीवेधे नवम्यां चण्डिकां यजेत् ।
 पारणे च प्रकुर्याद्वै तस्य पुण्यं निरर्थकम् ॥

    अथ नवमः ।
 अत्राऽयमभिसधिः। नवम्या दशमीयोगो न स्वरूपतो निषिद्यते, किं तु पारणकालीनत्वेन। ‘दशम्यां पारणे कृते’ इत्यनेन पारणाधिकरणत्वेन दशम्या निषेधात् । पारणकालस्य पञ्चधा विभक्तस्य दिवसस्यISऽद्यो भागः प्रातःसंज्ज्ञः ।

  सर्वेषामुपवासानां प्रातरेव हि पारणम् ।

 इतिवचनात् । तेन यदि प्रातःकाले घटिकामात्रा नवमी परस्ताच्च दशमी तदा तादृश्यां नवम्यां पारणं न कार्यमेव । कर्मकालव्याप्त्यभावात् । किं तु पूर्वेद्युरेव, तत्राऽपि कर्मकालव्याप्तिश्चेत् । तेनाऽयमर्थः-यदि पूर्वेद्युः षड्दण्डाधिका वा अष्टमी परस्ताच्च नवमी