भवानीप्राङ्गणे प्राणा येषां यान्ति युधिष्ठिर !।
तेषां स्वर्गे चिरं वासो वीरास्तेऽप्सरसा प्रियाः ॥ इति ।
धौम्योऽपि -
उद्दिश्य दुर्गा हन्यन्ते विधिना यत्र जन्तवः ।
ते यान्ति स्वर्गे कौन्तेय ! घातयन्तोऽपि शक्तितः॥
तत्र ये ह्युपयुज्यन्ते प्राणिनो महिषादयः ।
सर्व्वे ते स्वर्गमायान्ति घ्नतां पापं न विद्यते ॥ इति ।
कालिकापुराणेऽपि -
बलेः पूर्वोदिता मन्त्रा नित्यं ग्राह्यास्तु साधकैः ।
स्वयं मन्त्रस्तु वक्तव्यस्तस्य हत्याविहानये ॥
यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयभुवा ।
अतस्त्वां घातयिष्यामि तस्माद्यज्ञेऽवधो वधः॥ इति ।
नन्वस्य वैधत्वे दोषाऽभावकीर्त्तनमनुपपन्नम् । न हि अग्नीषोमीयादिवधे दोषाऽभावकीर्त्तनमस्ति विधानादेव दोषाऽभावसिद्धेरिति चेत्, मैवम् । विधिप्रवर्त्तितस्य प्रबलतरालस्य दुर्वासनादिदोषाऽपनोदनद्वाराऽर्थवादानां प्रामाण्यस्थापनात् । नैतावताऽन्यतराऽनर्थक्यं शक्यते वक्तुम्।