अथ प्रसङ्गेन मध्येनवरात्रं सूतकादिपाते निर्णयः । तत्र यद्यपि सर्वकर्मणां निषेधः सामान्यतो दृश्यते । तथाऽपि केषांचित्प्रतिप्रसवदर्शनादनुष्ठानं सम्भवतीति प्रकृते विचारः । तत्र सामान्यतस्तावद्विष्णुराह --
व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे ।
प्रारब्धे सूतके न स्यादनारब्धे तु सूतकम् ॥
सूतकमिति मृतकस्याऽप्युपलक्षणम् । तुल्यन्यायत्वात् । अत्र प्रारम्भशब्देन सङ्कल्पमात्रम् ।
प्रारम्भो वरणं यज्ञे सङ्कल्पो व्रतसत्रयोः ।
इत्यनेन सङ्कल्पस्याऽऽरम्भत्वव्यपदेशात् । तथा सङ्कल्पाऽनन्तरमन्त्यपदार्थपर्यवसानपर्यन्ते कालेऽत्र सूतकाऽभावः इति विवेकः । ‘‘सङ्कल्पो व्रतसत्रयोः ” इति विशेषवचनात् । विशेषतोऽपि विश्वरूपनिबन्धे -
आश्विनस्याऽमले पक्षे प्रारब्धे नवरात्रके ।
शावे सूते समुत्पन्ने क्रियाः कार्याः कथं बुधैः ॥
इति प्रश्नपूर्वकमुत्तरितम् ।
प्रवृत्ते नवरात्रे तु सूतकं च यदा भवेत् ।
देवीपूजा प्रकर्तव्या पशुयज्ञविधानतः ॥