वाक्यादप्रतीतेः। एतेन तृतीयमपि व्यवस्थापितम् । यदा यदि अष्टमीदिनेऽपि सङ्गवं स्पृशति तदा तर्हि फलातिशयार्थेत्यर्थपरत्वात् । यद्वा सङ्गवकालीननवम्यां भगवतीपूजा लक्ष्म्यादिफलविशेष एव विधीयत इति विशिष्टविध्यन्तरत्वान्नास्त्यस्य बाधकम् । अन्यथा विशिष्टविधाने विशिष्टाऽनुवादे वाक्यभेदापत्तेः । एवं चाऽनेकविधिनिषेधवाक्यानि सुस्थानि भवन्ति । तस्माद्ष्टमीयुक्तैव नवमी ग्राह्येति स्थितम् ।
भविष्योत्तरे–-
तत्राऽष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी ।
प्रादुर्भूता महाघोरा योगिनीकोटिभिः सह ॥
अतोऽर्थे पूजनीया सा तस्मिन्नहनि मानवैः। इति।
अत्राहनीतिपदश्रवणाद्दिवापूजा प्रतीयते इति कश्चित् । तन्न । अहःपदस्याऽहोरात्रपरत्वात् । तेन रात्रावेव पूजा । उक्तं च देवीपुराणे--
आश्विने मासि मेघान्ते महिषासुरमर्द्दिनीम् ।
देवीं सम्पूजयित्वा ये अर्द्धरात्रेऽष्टमीषु च ॥ इति ।