तथा--
इषे तु शुक्लनवमी सङ्गवस्पृग्यदा तदा । |
तेष्वाद्यं तावत् "मासिं चाश्वयुजे वीर !" इतिवाक्यं
स्नानदानादिबोधकं दशमीयुक्तनवमीविधायकं कथमिति
नाऽवधारयमः । यत्पुनर्द्वितीयं "अश्वयुक्शुक्लनवमी"
इतिवाक्यं तदपि मुहूर्त्तमात्रसत्त्वे नवम्याः सकलत्वमा-
त्रप्रतिपादकम् । यथा--
सा तिथिः सकला ज्ञेया यस्यामम्युदितो रविः॥ इति ।
न पुनर्द्दशमीयुक्तनवमीग्राह्यत्वप्रतिपादकम् । न
च मुहूर्त्तमात्राया नवम्याः सकलत्वप्रतिपादनं नादृष्टार्थे
किं तु तादृश्या नवम्या ग्राह्यत्वाथेमेवेति वाच्यम् ।
सकलत्ववचनस्य प्राशस्त्यपरतयाऽर्थवादस्य लिङ्गत्वेनाऽ-
ष्टमीयुक्तनवमीग्राह्यत्वप्रतिपादकप्रत्यक्षश्रुतिविरोधेन श्रुत्यन्तराऽनुमापकत्वासम्भवात् । तर्हि तस्य का गतिरिति चेत्, गतिमवगच्छ। अष्टमीदिने मुहूर्त्तमात्रसत्त्वे प्राशस्त्यपरतयोपपत्तिः पूर्वोदाहृतानेकवाक्याऽनुरोधात् । न
चोदयकालीनमुहूर्त्तमात्रपरत्वमिति वाच्यम् । अस्यार्थस्य