पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
सटीकलोचनोपेतध्वन्यालोके


 प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् ।


लोचनम्

 अन्यदेव वस्त्विति । पुन शब्दो वाच्याद्विशेषद्योतकः । तद्वयतिरिक्त सारभूतं चेत्यर्थः । महाकवीनामिति बहुवचनमशेषविषयव्यापकत्वमाह । एतदभिधास्य- मानप्रतीयमानानुप्राणितकाव्यनिर्माणनिपुणप्रतिभाभाजनत्वेनैव महाकविव्यपदेशो भव. तीति भावः । यदेवंविधमस्ति तद्भाति । न ह्येत्यन्तासतो भानमुपपन्नम् ; रजताद्यपि नात्यन्तमसद्भाति । अनेन सत्वप्रयुक्तं तावदानमिति भानात्सत्वमवगम्यते । तेन यद्भाति तदस्ति तथेत्युक्तं भवति । तेनायं प्रयोगार्थः-प्रसिद्धं वाच्यं धर्मि ,

बालप्रिया

 'प्रतीयमानमित्यादिकारिकाव्याख्यानेनैव ‘स ह्यर्थः इत्यतः प्राक्तनो वृत्तिग्रन्थोऽपि व्याख्यातो भवतीत्याशयेन कारिकां व्याचष्टे-पुनश्शब्द इत्यादि । वाच्यादिति । 'वाच्यांशादिति च पाठः । अन्यपदं व्याचष्टे-तदिति । वाच्यव्यतिरिक्तमित्यर्थः । वस्तुपदं व्याचष्टे-सारेति । इति बहुवचन मिति । 'वाणीष्विति बहुवचनस्याप्यु- पलक्षणमिदम् । अशेषविषयव्यापकत्वमिति । प्रतीयमानस्येति शेषः । एतदिति । एतस्मिन्नेतद्ग्रन्थे अभिधास्यमानेन प्रतीयमानेन । एतदिति प्रतीयमानविशेषणं वा । इति भाव इति । 'महाकवीनामिति प्रकृत्यंशेनायमर्थो गम्यत इत्यर्थः । कारि- कायाः प्रतीयमानसत्त्वसाधकानुमानपरतां दर्शयितुमुपक्रमते-यदित्यादि। यत् यस्मात् । एवंविधं व्यतिरिक्तं सारभूतं च प्रतीयमानम् , अस्ति । तत् तस्मात् । भातीति । हेतुहेतुमद्भावोऽयमार्थिको बोध्यः । अनेन सत्त्वभासमानत्वयोर्हेतुहेतुमद्भाव- रूपानुकूलतर्कश्च प्रकाशितः । न्यायमतानुसारेणाह-न हीति । भानं प्रतीतिः । उप- पन्नं युक्तिसिद्धम् । रजताद्यपीति । अत्यन्तमसन्न भाति, किन्तु आपणादौ सदेव रजतादि शुक्तिकादौ भातीति भावः । अनेनेति । अत्यन्तासतोऽभानेनेत्यर्थः । यद्वा- 'अस्ति' 'विभातीतिकारिकाभागेनेत्यर्थः । अस्मिन् पक्षे इत्युक्तं भवतीत्यनेनास्य सम्बन्धः । तावदिति सम्प्रतिपत्तौ । यदिति। यद्यदित्यर्थः । भातीति । यथेति शेषः । इत्युक्तमिति । इति व्याप्तिः कारिकायां वृत्तो च प्रदर्शितेत्यर्थः । तेनेति । भानसत्वयोः व्याप्तिप्रदर्शनेनेत्यर्थः । अयं वक्ष्यमाणः प्रयुज्यत इति प्रयोगस्तद्रूपार्थः । परार्थानुमान-


 १. महाकविवाणीत्वव्यापकत्वमित्यर्थः । व्यापकत्वञ्च-स्वसमानाधिकरणात्यन्ता- भावप्रतियोगितानवच्छेदकधर्मवत्त्वम् । प्रमेयत्वादिनास्यातिप्रसक्तत्वे तु स्वसमानाधि- करणभेदप्रतियोगितानवच्छेदकत्वं बोध्यम् ।

 २. वन्ध्यापुत्रगगननलिनादेरित्यर्थः ।

 ३. परार्थानुमानञ्च न्यायसाध्यम् । न्यायश्च -अनुमितिचरमकारणलिङ्गपरामर्श- प्रयोजकशाब्दज्ञानजनकः, उचितानुपूर्वीकप्रतिज्ञादिपञ्चकसमुदायो वा । -