पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
प्रथमोद्योतः


 यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु ॥४॥

 प्रतीयमानं पुनरन्यदेव वाच्याद्वस्त्वस्ति वाणीषु महाकवीनाम् । यत्त. सहृदयसुपसिद्धं प्रसिद्धेभ्योऽलङ्कृतेभ्यः प्रतीतेभ्यो वावयवेभ्यो व्यतिरिक्त. त्वेन प्रकाशते लावण्यमिवाङ्गनासु । यथा ह्यङ्गनासु लावण्ये पृथनिर्वर्ण्य- मानं निखिलावयवव्यतिरेकि किमप्यन्यदेव सहृदयलोचनामृतं तत्त्वान्तरं तद्व- देव सोऽर्थः ।


लोचनम्

प्रतीयमानेन व्यतिरिक्तेन तद्वत् , तथा भासमानत्वात् लावण्योपेताङ्गनाङ्गवत् । प्रसिद्ध- शब्दस्य सर्वप्रतीतत्वमलङ्कृतत्वं चार्थः । यत्तदिति सर्वनामसमुदायश्चमत्कारसारताप्र- कटीकरणार्थमव्यपदेश्यत्वमन्योन्यसंवलनाकृतं चाव्यतिरेकभ्रमं दृष्टान्तदार्ष्टान्तिकयोर्दर्श- यति । एतच्च किमपीत्यादिना व्याचष्टे । लावण्यं हि नामावयवसंस्थानाभिव्यङ्गयमवय-

बालप्रिया

रूपन्यायप्रयोग इति यावत् । प्रसिद्धमित्यादि धर्मीत्यन्तेन पक्षनिर्देशः । सिद्ध धर्मि- णमुद्दिश्य साध्यधर्मोऽभिधीयत' इति वचनानुरोधेन प्रसिद्धं धर्मीति चोक्तं, न त्वनयोः पक्षकोटिप्रवेशः । प्रतीयमानेन व्यतिरिक्तेन तद्वदिति साध्यनिर्देशः । स्वव्यतिरि- क्तप्रतीयमानसम्बद्धमित्यर्थः । वाच्यस्यैव प्रतीयमानत्वमभ्युपगच्छतां मते स्वात्मक- प्रतीयमानवत्वं सिद्धमिति सिद्धसाधनवारणाय स्वव्यतिरिक्तत्वनिवेशः । तथा भास. मानत्वादिति हेतुनिर्देशः । स्वव्यतिरिक्तप्रतीयमानवत्वेन प्रमीयमाणत्वादित्यर्थः । अत्र दृष्टान्तः-अङ्गनाङ्गवादिति । अत्र स्वव्यतिरिक्तप्रतीयमानपदार्थत्वेन लावण्यं ग्राह्यमिति प्रदर्शयितुं लावण्योपेतेत्युक्तम् । अङ्गवदित्यनन्तरं इतीति शेषः । वृत्तौ 'अलङ्कृतेभ्यः प्रतोतेभ्यो वा' इत्यत्र. वाशब्दः समुच्चयार्थक इति प्रदर्शयितुं व्याचष्टे-प्रसिद्धशब्दस्येत्यादि । लावण्यस्य भूषणशोभातो व्यतिरेकं दर्शयितुमल ङ्कृतत्वरूपार्थस्यापि कथनम् । कारिकायां 'यत्तदित्यत्र यच्छब्दः पूर्वोक्तप्रतीयमान- वस्तुवाची । 'तदि' ति तच्छब्दस्तु प्रसिद्धार्थक इत्याशयेन 'सहृदयसुप्रसिद्धमि' ति वृत्ती व्याख्यातम् , आभ्यां गम्यमानमर्थं व्याचष्टे-यत्तदित्यादि । समुदाय इति । यच्छब्दसहितस्तच्छब्द इत्यर्थः । चमत्कारः सारः प्राणो यत्र तत् ।चमत्का- रसारं प्रतीयमानं लावण्यं च तस्य भावस्तत्ता तस्याः। प्रकटीकरणार्थं द्योतनार्थम् । अव्यपदेश्यत्वं व्यपदेष्टुमशक्यत्वम् । रसध्वन्यभिप्रायेण चेदमुक्तम् । अन्यो- न्येति । वाच्यव्यङ्गययोरङ्गलावण्ययोश्चेत्यर्थात्सिध्यति । 'अव्यतिरेकभ्रमं चेति यो- जना । दृष्टान्तेत्यादि । यत्तदित्यस्य दृष्टान्तेऽपि सम्बन्धोऽस्तीति भावः । दर्शयति