पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
सटीकलोचनोपेतध्वन्यालोके

सटीकलोचनोपेतध्वन्यालोके स ह्यर्थो वाच्यसामर्थ्याक्षिप्तं वस्तुमात्रमलंकाररसादयश्चेत्यनेकप्रभे- दप्रभिन्नो दर्शयिष्यते । सर्वेषु च तेषु प्रकारेषु तस्य वाच्यादन्यत्वम् ।


लोचनम्

वव्यतिरिक्तं धर्मान्तरमेव । न चावयवानामेव निर्दोषता वा भूषणयोगो वा लावण्यम् , पृथङ्निर्वर्ण्यमानकाणादिदोषशून्यशरीरावयवयोगिन्यामप्यलङ्कृतायामपि लावण्यशून्ये- यमिति, अतथाभूतायामपि कस्याञ्चिल्लावण्यामृतचन्द्रिकेयमिति सहृदयानां व्यवहारात् ।

 ननु लावण्यं तावद्व्यतिरिक्तं प्रथितम् । प्रतीयमानं किं तदित्येव न जानीमः, दूरे तु व्यतिरेकप्रथेति । तथा भासमानत्वमसिद्धो हेतुरित्याशङ्कय स ह्यर्थ इत्यादिना स्वरूपं तस्याभिधत्ते । सर्वेषु चेत्यादिना च व्यतिरेकप्रथां साधयिष्यति । तत्र प्रती- यमानस्य तावद्द्वौ भेदौ-लौकिकः, काव्यव्यापारैकगोचरश्चेति । लौकिको यः स्वश- ब्दवाच्यतां कदाचिदधिशेते, स च विधिनिषेधाद्यनेकप्रकारो वस्तुशव्देनोच्यते । सोऽपि द्विविधः-यः पूर्वं क्वापि वाक्यार्थेऽलङ्कारभावमुपमादिरूपतयान्वभूत् , इदानीं त्वनल.

बालप्रिया

सूचयति । किमपीत्यादिना व्याचष्ट इति । वृत्तौ 'किमपीत्यादेः दार्ष्टान्तिकेऽपि सम्बन्धो बोध्य इति भावः । दृष्टान्तस्य साध्यवैकल्यशङ्कां परिहर्तुमाह-लावण्यं हीत्यादि । धर्मान्तरं धर्मविशेषः । उक्तमुपपादयति--न चेति । पृथगिति । पृथङ्निर्वर्ण्य॑माना दृश्यमानाः काणादिदोषशून्याश्च ये शरीरावयवास्तद्यो. गिन्यामपि । काणशब्दः काणत्वपरः। अतथाभूतायामिति । काणत्वादिदोषसहि- तायामनलङ्कृतायां चेत्यर्थः । चन्द्रिकेत्यारोपेणोक्तिः । वृत्तौ 'पृथगित्यादि । पृथ- ङ्निर्वण्यमानेभ्यो निखिलावयवेभ्यो व्यतिरेकीत्यर्थः ।

 'स ह्यर्थ' इत्यादिवृत्तिग्रन्थमवतारयति-नन्वित्यादि। तदिति । भवदुच्यमानमि- त्यर्थः । 'किमित्येव न जानीम' इत्येवकारसूचितं कैमुतिकन्यायं स्पष्टीकरोति-दूर इति । तस्येति शेषः । व्यतिरेकस्य वाच्याभेदस्य, प्रथा प्रसिद्धिः । धर्मसिद्धेः धर्मिसिध्य- धीनत्वात् प्रतीयमानस्यासिद्धौ तत्र वाच्यभेदस्याप्यसिद्धिरित्यर्थः । इतीति हेतौ । तथे- त्यादि । तथाभासमानत्वरूपो हेतु: हेत्वप्रसिद्धिरूपदोषविशिष्ट इत्यर्थः । 'वस्तुमात्र मित्यादिवृत्युक्तमुपपादयति-तत्र प्रतीयमानस्येत्यादि । तत्र प्रतीयमानस्य अस्ति- त्वे सति । तावदादौ । लौकिकः लोकविदितः। काव्येति । काव्यं शब्दार्थमयं तस्य शब्दस्यार्थस्य च यो व्यापारः व्यञ्जनारूपः तदैकगोचरः नान्यगोचरः । ततश्चालौकिक इति भावः । लौकिको य इति । स इति शेषः। कदाचित् वाच्य- त्वावस्थायाम्। वस्तुशब्देनेति। वस्तुध्वनिशब्देनेत्यर्थः । वस्तुशब्दं व्याख्याय 'वस्तु- मात्र' मिति मात्रशब्दव्याख्यासौकर्यायादावलङ्कारध्वनिं व्याख्यातुमाह-सोऽपीत्या- दि । पूर्व वाच्यत्वावस्थायाम् । इदानीं व्यंग्यत्वावस्थायाम् । अन्यत्र वाच्यार्थे यो