पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
प्रथमोद्द्योतः

लोचनम्

ङ्काररूप एवान्यत्र गुणीभावाभावात् , स पूर्वप्रत्यभिज्ञानवलादलंकारध्वनिरिति व्यपदिश्यते ब्राह्मणश्रमणन्यायेन । तद्रूपताभावेन तूपलक्षितं वस्तुमात्रमुच्यते । मात्रग्रहणेन हि रूपान्तरं निराकृतम् । यस्तु स्वप्नेऽपि न स्वशब्दवाच्यो न लौकिकव्यवहारपतितः, किं तु शब्दसमर्प्यमाणहृदयसंवादसुन्दरविभावानुभावसमुचितप्राग्विनिविष्टरत्यादिवा- सनानुरागसुकुमारस्वसंविदानन्दचर्वणाव्यापाररसनीयरूपो रसः, स काव्यव्यापारै-

बालप्रिया

गुणीभावः तस्याभावात् । नन्वनलङ्कारस्वरूपत्वे कथमलङ्कारध्वनिरिति व्यवहार इत्यत अहा -पूर्वेति । 'न्यायेन व्यपदिश्यत' इति सम्बन्धः । श्रमणः आर्हतसमय- प्रविष्टः । तद्रूपताभावेन अलङ्काररूपत्वाभावेन । मात्रग्रहणेनेति । 'वस्तुमात्रमिति वृत्तिस्थमात्रशब्देनेत्यर्थः । रूपान्तरं अलंकाररूपत्वम् ।

 स्वप्नेऽपीति । स्वप्ने ह्यघटमानमपि घटते। न लौकिकव्यवहारपतित इति। न पुत्रजन्मादिहर्षतुल्यरूप इति भावः । शब्देति । शब्दैः गुणालंकारसुन्दरकाव्य- शब्दैः । समर्प्यमाणाः सम्यक्तया रसाभिव्यञ्जनसमुचिततया अर्प्यमाणाः सहृदयहृ- दयमुकुरोदरे संक्रामिताः । अनेन विभावादेर्वास्तवसत्वमप्रयोजकमिति दर्शितम् । स्पष्टमिदं दशरूपकादौ । अत एव शकुन्तलादीनामिव मालत्यादीनामपि विभावत्वादि- कमुपपन्नम् । न केवलं काव्यशब्दसमर्पणकृतमेव विभावत्वादिकं, किंतु सहृदयहृदय- संवादकृतमपीत्याह-हृदयेति । शब्दसमर्प्यमाणाः हृदयसंवादसुन्दराश्व ये विभावानुभावाः तेषां समुचिताः प्राक्जन्मनः आरभ्य “न ह्येतचित्तवृत्तिशून्यः प्राणी भवती" त्युक्तदिशा आत्मनि विशेषतो निविष्टाः याः रत्यदीनां वासनाः सूक्ष्म- रूपाः, तासामनुरागेण उद्बोधद्वारकेण रूषणेन । सुकुमारा रसचर्वणयोग्यतां गता या स्वस्य चर्वयितुः सहृदयस्य संवित् सम्यग्वेत्त्यनयेति संविन्मनः, तस्या य आनन्द- मयः चर्वणारूपो व्यापारः तेन, रसनीयमास्वादनीयं रूपं यस्य सः । यथोक्तं मुनिना-"आस्वादयन्ति मनसे" त्यादि । यद्वा-सुकुमारः नित्यमनोहरः । स्वसंचित् स्वानुभवसिद्धः, आनन्दमयश्च यः चर्वणाव्यापारः तेनेत्यर्थः । रस-


 १. यथा कश्चन प्रथमतो ब्राह्मणो भूत्वाऽनन्तरं श्रमणत्वं ( बौद्धसंन्यासित्वं ) प्राप्तोऽपि ( अवैधशिखासूत्रपरित्यागेन ब्राह्मणत्वाभाववानपि ) भूतपूर्वसंज्ञानुसारेण 'ब्राह्मण' इति व्यवदिश्यते, तथा प्रकृतेऽपि पूर्वमयमलङ्कार आसोदित्येतावता अलङ्का- रव्यपदेश इति भावः । इदमत्र ध्येयम्-यत् या व्यक्तिः प्राक् ब्राह्मणत्वजातिमती पश्चात्परित्यक्तब्राह्मणभावा भूतपूर्वगत्या, सा ब्राह्मणव्यपदेशभाग्भवति । नात्र तथा, यतो या उपमाद्यलकारव्यक्तिः, सा गुणीभावात्सर्वत्रालङ्काररूपैव । या च प्रधानतया ध्वनिव्यपदेशमासादयति, सान कदाचिदपि गुणीभावादलङ्कारभावमाप्नोतीति कथमत्रायं न्यायः सङ्घटत इति ।

 २. रत्यादिवासना रत्यादिसंस्कारः । रतिश्चेच्छाविशेषः । एतेनानुभवेनेवेच्छारूपेण